________________
Shri Mahavir Jain Aradhana Kendra
गणधर
साईशतकम् ।
॥ ४२ ॥
www.kobatirth.org
लीभूतम् । तथा 'बुड्डीरयणिअरेणावि' ति, प्राप्ता = लब्धा वृद्धि - उपचयः, रजो = बध्यमानं कर्माधर्म्मरूपं तस्य निकरः- समूहस्तेन रजोनिकरेणापि पूर्वापेक्षयाऽपि समुच्चये, प्राप्तप्रसरेण लब्धावकाशेनेति । संतमसोल्लासपक्षे तु नक्षत्रैः = ऋक्षैः स्फुरितं= व्यक्तीभूतं महाग्रहैश्व - गुरुशुक्रादिभिः समुल्लसितम् अतिशयेन दीप्तीभूतम् । वृद्धि:- पुष्टिः रजनिकरेणापि = चन्द्रमसा प्राप्ता प्राप्तप्रसरेण || ८७ ॥ तथा 'पासत्थकोसिअकुलं पयडीहोऊण हंतुमारद्धं काए' ज्ञानादीनां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः, अत्रोपलक्षणत्वादन्येऽप्यवषण्णादयः, त एव कौशिकाः ' कौशिकः शक्रघूकयोः ॥ कोशज्ञे गुग्गुलावाहि तुण्डिके नकुले मुनौ ॥ " इति ( मानेकार्थ० ३ - ६३६) वचनात् इन्द्रा = अधिपतयस्तेषां कुलं "कुलं सङ्घः कुलं गोत्रं, शरीरं कुलमुच्यते " इति (शब्दरत्नप्रदीप ) वचनात् कुलं = सङ्घः कौशिककुलं प्रकटीभूय - प्रत्यक्षीभूय हन्तुं निःशङ्कं विध्वंसयितुं सचित्तपृथिवीमर्दन - सचित्तजलपान - दीपादितेजस्कायविराधन- तालवृन्तादिवीजनादि-प्रकारैः कायान् पड्जीवनिकायान् आरब्धं= प्रवृत्तम् । ननु पट्काय वधादात्मनो भविष्यद्दुर्गतिपाताचे किं न बिभ्यति १, सत्यम्, एतदेवाह - 'एयविधाए' एतेषां कायानां विघाते विनाशे भावि = आगामि यद्भयं = नरकपातादिवासः, तं न गणयति = नावेक्ष्यते पार्श्वस्थ कौशिककुलमिति सम्बन्धः, सान्दृष्टिकफलमात्र प्रतिबद्धा हि गुरुकर्माणः सच्चा नोदर्कफलं पर्यालोचयन्तीति भावः । सन्तमसपक्षे च पार्श्वस्थं निकटवर्त्ति कौशिक कुलम् - उल्लूकवृन्दं प्रकटीभूय = पर्वतगुहादिभ्यो निःसृत्य हन्तुं त्रोटिप्रहारैखोटयितुमारब्धमिति पूर्ववत् । कान् ? इत्याह- 'काए 'ति काकान्वायसान्, यतो यस्माद्धेतोः, तत्-कौशिककुलं माविभयं - काकेभ्यश्चञ्चुचुण्टनादि - भविष्यद्भीतिं न गणयति =न विचारयति मूढत्वादित्यर्थः ॥ ८८ ॥ ' जग्गंति' इत्यादि । विवेकजागरिकया जाग्रति- स्फूर्जन्ति जनाः = लोकाः स्तोकाः = परिमिताः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभ
सूरीणां
सप्रपंच
स्तुतिगर्भचरित्रादि ॥
॥ ४२ ॥