________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चारः २ सङ्केतः ३ अवसरो ४ नियमो ५ वा, पदं स्थानं संयमक्षेत्रासंयमक्षेत्ररूपं क्षेपश्च = समयोचितो विलम्बः, ततः अवगताः=ज्ञाताः समयपदक्षेपा येन स अवगतसमयपदक्षेप इत्यर्थः । यच्छिष्यः ' विहियनवगवित्तिजलधोयजललेवो ' त्ति, अत्र ' जललेवो ' इत्यत्र डलयोरेकत्वात् ' जड ' इति ज्ञेयम्, तत्रापि ' द्रव्यानयने भावानयन - मिति न्यायाज्जाड्यमिति द्रष्टव्यं ततः - विहिता = रचिता स्वयमिति गम्यते विशेषेण मुक्त्यर्थिनां सिद्धान्तशरणानां शुद्धात्मनामेकान्तेनैव हिता - पथ्या मुक्तिमार्गदर्शन दीपिका कल्पत्वेन वा विहिता नवसंख्यानां स्थानाङ्गादीनामङ्गानां वृत्तिः = विवरणं नवाङ्गवृत्तिः, विहिता चासौ नवाङ्गवृत्तिश्व सैव जलं = सलिलं विहितनवाङ्गवृत्तिजलं, तेन धौतः =प्रक्षालितो जाडयलेपः =अज्ञानपङ्कपुटो येन स विहितनवाङ्गवृत्तिजलधौतजललेपः । एतच्च न वाग्देवताप्रसादोल्लसितवाग्विलासानां नवाङ्गीविवरणकरण मत्यद्भुततमं निस्सीमशेमुषीसमुल्लासविलासवासभवनत्वाद्विपश्चितां तदुक्तम्
" उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रा मुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ १ ॥ " इति । अथानन्तरविशेषणार्थमेव भङ्गयन्तरेण स्पष्टयति येन नवाङ्गविवरणं विहितं विधिना - गुरुपदेशानुसारादिना सम= सह शिवश्रिया = सिद्धिलक्ष्म्या कर्त्तुं विधातुं नवम् = अननुभूतपूर्वं नूतनं गवि पृथिव्यां वरणमिव, इव शब्दाध्याहारः कार्यः “ सोपस्काराणि वाक्यानी " त्युक्तेः, वरणकं च- अविधवयुवतीमधुरमङ्गलोच्चारकुमारिका मुखकमलघुसृणमण्डनालङ्कारदानादिपूर्वकः परिणयनसत्यङ्कारदानप्रकारः प्रसिद्ध एव । किं कृत्वा ? उज्झित्वा = त्यक्त्वा भवयुवतीसंयोगं - भवः - संसारः स
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir