________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रवानुकारिणो हया:-तुरगा यत्र तस्मिन् सुहये । यदि वा सुभगे हृदयप्रिये सकलफलपुष्पभक्ष्यवस्त्रतीक्ष्णनागरखण्डनागवल्लीदलसोपारकपूगफलादिनानाप्रकारमनोहरवस्तुरत्नाकरत्वेन विषयिणां मुग्धबुद्धीनां लोचनसाफल्यकारिदर्शने इति, तत्ववृत्त्या पुनः समस्तसौख्यनिधाननिर्वाणदानदुर्ललितानां परमेष्ठिनामेव वर्ण्यमानं सुभगत्वं श्रेष्ठमिति । नाटकपक्षे च मुग्धानां सुखदे-सातावहे इति विशेषणसप्तकार्थः ७ ।
अमुमेवार्थ पुनः सविशेपमाह-वसहिविहारो' इत्यादि । वसत्या चैत्यगृहवासनिराकरणेन परगृहस्थित्या सह विहार:= समयभाषया भव्यलोकोपकारादिधिया ग्रामनगरादौ विचरणं वसतिविहारः, स यैर्भगवद्भिः स्फुटीकृतः सिद्धान्त शास्त्रान्तः | परिस्फुरन्नपि लघुकर्मणां प्राणिनां पुरः प्रकटीकृतः। कस्याम् ? गूर्जरात्रायां सप्ततिसहस्रप्रमाणमण्डलमध्ये । किं विशिष्टा| याम् ? परिहतगुरुक्रमागतवरवा यामपि, परिहता श्रवणमात्रेणापि अवगणिता गुरुक्रमागता-गुरुपारम्पर्यसमायाता वरसवार्ता विशिष्टशुद्धधर्मवार्ता यया सा तथा तस्याम् , अपिः सम्भावने-नास्ति किमप्यत्रासम्भाव्यं घटत एवैत्यर्थः, परं ताह8 श्यामपि प्रतीयमानार्थपक्षे पुनः गुरु:-पिता "गुरुमहत्याङ्गिरसे, पित्रादौ धर्मदेशके ।" इत्यनेकार्थवचनात् (हैमा०२-४१७),
तस्य गुरोः क्रमा-गुरूक्रमः "क्रमः कल्पांहिशक्तिषु परिपाट्याम्" इति (हैमानेकार्थसह० २-३२६ ) वचनात्
कल्प: आचारः स्वकन्यकां वराङ्गीकारणलक्षणस्तेन गुरुक्रमेणागता आयाता गुरुक्रमागता, सा चासौ वरवार्ता च, वरो= RI तस्य वार्ता कथा वरवार्ता, परिहृता-त्यक्ता गुरुक्रमागतवरवार्ता यस्यां तन्निवासिलोकेनेति गम्यते, तत्स्थलोकोप
चारात्मैव वा व्यपदिश्यते ततः परिहता गुरुक्रमागतवरवार्ता यया सा तथा तस्यामिति समासः, अत एव 'गुजरताए'त्ति
RRC-NCCCCCCROCOM
For Private and Personal Use Only