________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरुस्थलीयं केशरदेशर नामानं ग्राम मालुनामानमन्वयं च सहैवात्मना दापयाश्चक्रुः।
द्वादशोत्तराष्टादशशततमे ( १८१२ ) वैक्रमे वत्सरे चाल्पीय सा कालेनैव समुपजातवराग्यातिरेकास्ते दीक्षामग्रहीषुरनधर्माभिवानेभ्यो मुनिवरेभ्यः । अध्ययनं त्वेभिर्व्यधीयत विविवशास्त्रपारंगतेभ्यः श्रीराजसोमोपाध्यायभ्यः । पठनविषयेऽमीषां कीदृग मातवैभवसमभवदिति तु पुरो दर्शमानेन श्रीपुग्यचरितकाव्ये वर्णितेन पद्यत्रयेण ज्ञास्यते विज्ञवरैः तथाहि--
"छात्रेषु सर्वेषु पठत्तु जातुचिदू वाराणसेयो विबुधः समाययौ । शिष्याः समे मक्षु पराङ्मुखी कृतास्तेनैककेनोत्तमशास्त्रचर्चया ॥ छात्रेषु सर्वेष्ववलोकयत्तु ख-मन्येषु पश्यत्सु च पाठकाननम् । पृथ्वीतलं चाकलयत्तु केषुचिद् द्रष्टुं तथेच्छत्तु परेषु पुस्तकम् ॥ तस्मिन् क्षणे सिंह इवोन्मुखः क्षमाकल्याणकः सँस्कृतगर्जितंद्धत् । उच्चण्ड शुण्डारामिवा शुपण्डितं सम्यग्विजिग्ये ऽस्खलितोरुयुक्तिभिः॥३॥॥
एतेन मुनिप्रकाण्डेन स्वनेश्वरी देव्यपि साधितासीत् । तेनाऽनाधिगम्यमपि यं कमा
For Private and Personal Use Only