________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ar देवार्चनस्नान विलेपनानि व्याख्यायंते देवस्य श्रीजिनेन्द्रस्य तत्प्रतिमायाश्च | अर्चनं वासादिना स्नानं जलादिना विलेपनं चंदनादिना कर्तव्यं एतत्पदत्रयेण सर्वेपिपूजा प्रकारः सूचितः पूजाफलं चेदं “ सयंपमझ्झणे पुन्नं सहस्सं च विलेवणे सहसाहास्सियामाला अणतं गीय वाइयं ॥ १ ॥ इत्यादि
अत्र दृष्टांताः स्वयं वाच्या अथ ब्रह्मक्रिया १ दान २ तपो ३ मुखानि व्याख्यायते । तत्र ब्रह्मक्रिया ब्रह्मचर्यं सुदर्शन श्रेष्ठयादिवत् शीलवतपालनमित्यर्थः | तत्फलं यथा “जो देह कणय कोडी अहवा कारे इकणय जिणभवर्ग तस्स न तत्तियपुन्नं जत्तिय भव्वरा धरिये ॥ १ ॥ " इति दानं हि अभय १ सुपात्र २ अनुकंपो ३ वित्त ४ कीर्त्त ५ भेदात्पंचविधं तत्र द्वाभ्यां मोक्षः त्रिभिर्भोगप्राप्ति इह अभयदाने दृष्टान्तो यथा । एकदा राजगृहे सभास्थितेन श्रेणिकनाम्ना नृपेण सभ्येभ्यः मन्त्रिभ्यः
For Private and Personal Use Only