________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णरूपां भावहोलिकां कुर्वन्ति । अन्यत्तु सर्वमेव लौकिकं कर्म रजसा प्रवृतमिति प्रश्नमाशंक्य | सम्प्रदायगम्यं तत्कथानकमुच्यते ।
एकदा जयपुरनाम्नि नगरे जमवर्मनामा राजासीत् तत्रैव मनोरथनामा श्रेष्ठी तस्य चत्वारः पुत्रा एका तु होलिनाम्नी पुत्री स च पित्रा महोत्सवपूर्वकं विवाहिता परं स्वकर्मवशाद्विधवा जाता । अतः सदा पितुर्गृह एव निवसति स्म । अथैकदा निजप्रासादगवाक्षे स्थिता होली मार्गेण गच्छंतं वङ्गदेशस्वामिनो भुवनपालाभिधस्य राज्ञः कामपालनामानं पुत्रं विलोक्य कामाकुला जाता । सोपि तां विलोक्यातीव कामेन | व्याप्त आसीत् । श्रेष्ठी च तां गुप्तपीडापीडितां विलोक्य विषादं जगाम । इतः श्वोऽहनि तत्र पुरे एका साध्वी वसति स्म । सा च चन्द्ररुद्रभंडनाम्म्रो कस्यचिद्भरटस्य पुत्री अचलभूति नाम्नी तथा च कस्य च भरतस्य पत्नी ढूंढा इति नाम्नी आसीत् । सा च ढुंढा
For Private and Personal Use Only