________________
Shri Mahavir Jain Aradhana Kendra
० ०
112911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थं पिंगळरायतो मेरुत्रयोदश्या महिमा प्रवृत्तः । अस्यां त्रयोदश्यां पुरा रत्नमये मेरवो दौकिताः पुनश्च कियत्कालं यावत् स्वर्णमयाः ततश्च रौप्यमया इदानीन्तु घृतमया एव मेत्रः सम्प्रवृत्ताः । इति मेरुत्रयोदशीमहिमानं श्रुत्वा भव्यजनैः । शुद्धभावपूर्वकमेतद्व्रतं करणीयम् । येनेह परत्र च सुखसम्पत्तिः स्यात् । सम्वद्व्योमरसाष्टेन्दु ( १८६० ) मिते फाल्गुनमासके । एकादश्यां कृष्णपक्षे वीकानेराख्यसत्पुरे ॥ १ ॥ व्याख्यानान् प्राक्तनान् वीक्ष्य निबद्धांलोकभाषया । व्यलेखि देववाणीतः क्षमका ल्याणपाठकैः ॥ २ ॥ संविग्रवाचनाचार्यपदस्थानां सुधीमताम् । श्रीयुक्तामृतधर्माणां शिष्योऽयं वाग्विदाम्बरः ॥ ३ ॥
For Private and Personal Use Only
व्या●
॥८१॥