SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रयोदश स्वर्णघटितात्रयोदश च रत्नजटिताः प्रतिमाः संस्थापयामास । त्रयोदशाविधः स्नैश्च मेरुपञ्चकं निर्माय तान् पञ्चमेरून् देवमन्दिरे समयित् । संघेन सह । त्रयोदशवारश्च तीर्थयात्रामकरोत् त्रयोदश धार्मिकावासानि च तत्र कृतानि । ततो कालन्तरेण जातवैराग्यः सन् स्वपुत्राय महसेनकुमारनाम्ने राज्यं दत्त्वा स्वयं । बहुभिः राजपुरुषैस्सह सुव्रताचार्यसमीपे गत्वा दक्षिां प्रगृह्य द्वादशांगी च तेभ्यः सकाशाद वीत्य तपः कुर्वन् क्रमेणाचार्यपदं लेभे । ततश्च कियता कालेन क्षपणकश्रेण्यारोहणार्थ अष्टमगुणस्थाने शुक्लध्यानं ध्यातुमुद्यतो भूत्वा क्रमेण कर्माणि क्षपयन द्वादशगुणस्थानान्त्यप्तमये कर्मचतुष्टयं ध्यानेन नाशयित्वा केवलनानं लब्ध्वा बहून् भव्यान् बोधयन् पृथिव्यां यथेच्छं विचरन् द्विसप्ततिवर्षमितं पूर्णायुः प्रपाल्य पञ्च हस्वाक्षरोच्चारणतो योगमार्गेण शेषकर्म क्षपायत्वा मुक्तिं प्राप्तः । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy