________________
Shri Mahavir Jain Aradhana Kendra
मे००
॥७५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संगृह्य यदा गन्तुमुद्यतास्तदेव नगरनिवासिनां मुखादस्यराजकुमारस्य महानद्भुतं रूपलावण्यादिकं श्रुत्वा नृपेणोक्तं च वाक्यं स्मरणपथमुपागमत् । अतस्ते प्राभृतादिकमादाय | अयोध्याराजस्य समीपे गत्वा कुमारेण सह गुणसुन्दर्याः विवाहसम्बन्धं चक्रुः । राजाऽपि सम्बन्धं निश्चित्य तेषां दानमानादिभिरादरं चक्रे । ततस्ते सम्बन्धं विधाय हर्षितास्सन्तो | स्वदेशं प्रति जग्मुः । अथ कियता कालेन स्वदेशमागत्य राज्ञः समीपे गत्वा सम्बन्धसम्बन्धी सर्वमेव वृत्तान्तमकथयन् । राजा चेदृग्विधामनुपमां कुमार रूपलावण्यवाती श्रुत्वातीव सन्तुष्ट आसीत् । अथ व्यतीते बहुतिथे काले विवाहयोग्यां कन्यां विज्ञाय पाणिग्रहणहेतवे राजा कुमारानयानार्थं स्वसेवकान् प्रेषयामास । ते च अयोध्यां गत्वा विवाहसम्बन्धिनीं नृपेणोक्तां सकलां वार्तामकथयन् ।
राजा चैतच्छ्रुत्वा तान् सत्कृत्य सिंहासनात्सद्य उत्थाय प्रासादान्तरे गत्वा प्रधान
For Private and Personal Use Only
11104!!