SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मे० ७० ॥ ७॥ नाम चक्रे । अथ च राजा तं राजकुमारं पंगुं विज्ञाय अन्तःपुरे एव वासयति न कदाचिदपि बहिनिष्कासति येन कोपि तं पश्येत् । यदा कोपि जनः अस्य कारणं पृच्छति चे. देवं ब्रवीति । यदस्य महीयानत्यद्भुतरूपं वर्तते अतो दृष्टिदोषभयान्मया बहिनिष्क्रमणं निषिदं । अत एव सर्वस्मिन्नेव नगरे एषा जन श्रुतिः प्रथिता अभृत् । लोकाश्च एवं ब्रुवते स्म यत्पिङ्गलरायनामा राजकुमारसदृशः पृथिव्यामपरः कोपि रूपवान् न वर्तते । अथास्मिन लोकरवेक्रमेण देशाद्देशान्तरं गते सति सर्व स्मिन्नेव भूमण्डले अस्य रूपलावण्यशोभाऽभवत् । ___ अर्थतस्मिन्नेवकाले अयोध्यानगरीतः सपादशतयोजनानन्तरं मलयनाम देशोस्ति तत्रे. क्ष्वाकुवंशप्रभवः कश्यपगोत्रोद्भवो शतस्थनाम राजा राज्यं कुरुते स्म । तस्य च इन्दुपती नाम्नी पट्टराज्ञी तस्याः कुक्षौ युगसुन्दरी नाम कुमारिकाऽभवत् । सा चाति ७ि४॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy