________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्महीनाः शरीरं विहाय नरकं यास्यन्ति । तत्र चास्मिन्समये नराणां विंशतिवर्षाणि || परमायुः षड्वर्षास्त्रियो गर्भ जनयिष्यन्ति, गर्भञ्च मासमात्र एव वहिष्यन्ति ईदृशे | षष्टारके गते प्रथमारक एकविंशतिसहस्रवर्षमानः पूर्ववदैवत्यो द्वितीयारको भविष्यति | तत्र च पुष्करावर्तभिधाः मेघाः सुवृष्टिं विधास्यन्ति तेन पुनर्धान्यादीनामुत्पत्तिर्भवि| प्यति एवमेकविंशतिवर्षानन्तरं विमलवाहनादीनि सप्तकुंलागाराणि भविष्यन्ति । तत्र च | पृथ्वी ग्रामनगरजनाकीर्णा बहुसस्याख्या गृहे गृहे मङ्गलघोषपूर्णा भविष्यति, तत्काली
ना जनाश्च सदाचारनिरता यदा भविष्यन्ति तदैव द्वारापुर्या सुमतिनाम्नो राज्ञः गृहे भद्रा| कुक्षौ श्रेणिकराजजीवः प्रथमतीर्थकरत्वेनोत्पत्स्यति स च वीरसत्तमः सप्तहस्तदेहमानः स्वर्णाभो सिंहलाच्छनः द्विसप्तत्यदायु पुनः धर्मस्थापनां करिष्यति स च कार्तिकामायां मम इव मोक्षं यास्यति, स्वकीयमोक्षावसरमवसन्नं विज्ञाय स एप महात्मा वीरपाटकनगरे देव.
For Private and Personal Use Only