________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपथेकथा-संग्रह
॥ १० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि देशनां श्रुत्वा प्रतिबुद्धोऽय द्राविडः । ज्ञात्वा सर्वमनित्यं हि क्रोधं त्यक्त्वा व्यचारयत् ॥ ३१ ॥ अहो मे जीवितं far is एव विद्यते । यावद् द्वादशवर्षाण्य-हं तेन युयुधे समम् ||३२|| तदनिष्टं कृतं कार्य, मयैततोकजीवने । एतत्किं क्रियते ? वैरं, राज्यलोभवशेन च ||३३|| विचार्यैवं स उत्थाय द्राविडस्तापसाश्रमात् । क्षाम
कोर्भ्रातुः पार्श्वगात्सैन्यमध्यतः ||३४|| वृद्धं भ्रातरमायान्तं वारिखिल्लोऽपि सम्मुखम् । आगत्य ज्ञातवृत्तान्तः, पपात तस्य पादयोः ||३५|| द्राविडो बाष्पपूर्णाक्षिः, स्नेहार्द्रहृदयश्च तम् । उत्थाप्योवाच हे भ्रात !, मद्राज्यं त्वं गृहाण तत् ||३६|| लास्यामि तापसीं दीक्षां वारिखिल्लोऽवदत्तदा । अहमपि न लास्यामि, राज्यमनर्थदायकम् ॥३७॥ एवं परस्परं तौ द्वौ । समालोच्य विभज्य च । अर्घाऽधं स्वस्वपुत्राभ्यां राज्यं वितीर्य हर्षितौ ॥ ३८ ॥ नृपञ्चपञ्चकोटीयपरिवारेण तापसीम् । दीक्षां जगृहतुस्त्यक्त्वा, कुटुम्बादिपरिग्रहम् ॥ ३९ ॥ कुर्वन्तौ कन्दमूलाया- हारं वल्कळचीवरम् । धारयन्तौ तपस्यन्तौ जातौं कृशतन च तौ ॥४०॥ एवं बहुतरे काले, गते तत्र समागताः । गच्छन्तस्तीर्थयात्रार्थ मुनयो मुनिसत्तमाः || ४१ || द्राविडवारिखिल्लाभ्या - मत्यादरेण साधवः । सत्कृतास्तत्र वृक्षाध-स्ते प्रमायनिं स्थिताः || ४२|| उपविष्टौ मुखाग्रे तौ, तस्मिन् क्षणेऽथ पादपात् । पतितथटकश्चैको, मूच्छितो मुनिसम्मुखम् ॥४३॥ ज्ञात्वा तं चटकं स्तोका -युषमेकेन साधुना । सुश्रावितो नमस्कारः, सिद्धाद्रिमहिमा पुनः ॥ ४४॥ चटकस्तत्प्रभावेण सुरो जातो महर्द्धिकः । आयस्वर्गे स आगत्य ततो मुनीन्ननाम च ॥ ४५ ॥ तदानीं तापसौ साधुं पप्रच्छतुर्मुनीश्वरौ । कोऽयं सुरोऽस्ति ? चात्यन्त-रूपकान्तिमधारकः || ४६ || तदा प्राह मुनिर्मृत्वा ऽयं चटकः सुरोऽजनि । श्रीनमस्कारमाहात्म्या-रिसद्धाद्रिभावधारणात् ||४७॥ अधुना तीर्थराजं स प्रणम्याऽत्राऽऽगतोऽस्ति च । श्रुत्वा गुरुमु
For Private and Personal Use Only
|"
कार्त्तिकपूर्णिमा- कथा
॥ १० ॥