________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
A
॥ ११॥
cenezeceODeceDece
खादेत-तौ च पच्छतुः पुनः ॥४८ । गुरोऽस्ति ? कीदृशः सिद-गिरिर्माहात्म्यमस्य च । संश्रावय कृषां कृत्वा, तदा वाचंयमोऽवदत् ॥४९॥ अस्यैव जम्बूद्वीपस्या-स्ति दक्षिणार्द्धभारते । सौराष्ट्र श्रीमहातीर्थ-शत्रुञ्जयो महागिरिः ॥५०॥
कार्तिक
IN पूर्णिमा कथा अलंकृतो महातीर्थः, सोऽष्टोत्तरशताभिधैः । १ शत्रुञ्जयः, २ पुण्डरीकः, ३ सिद्धाद्रिविमलाऽचलः ४ ॥५१॥ ५ सुरगिरिमहाशैलः ६, ७ पुण्यराशिगिरिस्तथा। ८ श्रीपदः ९ श्रीपदस्थान-१० मिन्द्रप्रकाशपर्वतः ॥५२॥ ११ महातीर्थगिरिर्मुक्ति-१२ निलयः १३ शाश्वतो नगः । १४ दृढशक्तिगिरिः १५ पुष्प-दन्तो १६ महादिपकः ॥५॥ १७ पृथ्वीपीठः १८ सुभद्राद्रिः, १९ कैलाशपर्वतस्तथा । २० पाताळमूलशैलेशः, २१ सर्वकामगिरिस्तथा ॥५४॥ एकविंशतिसं
ज्ञामिः, ख्यातोऽस्त्ययं गिरिजने । शाश्वतो नामनिक्षेपा-महातीर्थो नगोत्तमः ॥५५॥ अनन्ता मुनयः पूर्व, सिद्धाचले | शिवं गताः । यास्यन्त्यागामिकाले च, निर्वाणं भव्यजन्तवः ॥५६॥ नवनवतिपूर्वाणि, वाराणि ऋषभप्रभुः। समव| मृतास्तत्र, राजादनीतरोरधः ।। ५७ ॥ संप्रत्याख्यचतुर्विश-तमाहतो गतः शिवम् । कदम्बगणभृदाद्य-स्तत्र तन्नामतो गिरिः ॥५८॥ ऋषभस्वामिनः शिष्यः, पुण्डरीकाभिधोऽधुना । आयो गणधरः साद्ध, साधूनां पश्चकोटिभिः ॥५९॥
चैत्रधवलराकायां, ययुः शत्रुञ्जयोपरि । मोक्षं कर्मेन्धनं दग्ध्वा, शुक्लध्यानामिनाऽखिळम् ॥६०॥ श्रीनमिविनमी तत्र, | विद्याधरौ शिवं गतौ । द्विद्विकोटिपरिवारः, दशम्यां फाल्गुनाऽर्जुने ॥६१॥ चैत्रशुक्लचतुर्दश्यां, नमिविनमिभूपयोः । चतुष्षष्टिसुतास्तत्र, सिद्धाचले शिवं गताः॥६२॥ तेन शिवगृहारोहे, सोपानसदृशो मतः। सिद्धाद्रि लवत्पाप-मळपक्षाकने पुनः ॥६॥ येन नरभवं प्राप्य, गत्वा शत्रुअये गिरौ । आदिजिनस्य नाऽकारि, द्रव्यभावेन पूजनम् ॥६४॥ नरत्वं हारितं तेन, पुनश्च तस्य जीवितम् । सफलं तीर्थबुद्धया य-स्तत्रार्चति जिनेश्वरम् ॥६५॥ युग्मम् ।। एवं गुरुमुखासिद्धा
IN ॥ ११ ॥
omeremewo@COODecoroen
For Private and Personal Use Only