________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुराग्रहं ज्ञात्वा प्रातिवेश्मिकाः परिवाराश्च संबोधनार्थमागतास्तं सम्बोधयामासुः - पदि जीविष्यसि तदा बहुधा मिष्टान्नानि खादिष्यसि, अथ कदाग्रहाद् यद्युपवासेन जीवनं त्यक्ष्यसि तदा कुतः परमान्नं मोक्ष्यसे १ परमित्थं बहुवोचितोऽपि स मूढो न बुबोध चान्तेऽनशनं कृत्वा पञ्चत्वं गतो दुर्गतिमाप । अत्राऽयं परमार्थः - अस्य नियमपरिपालनन्तु वरं परं तस्मिन् कदाग्रहो न द्वितकारकः, तथा हे भव्याः । धर्मेऽपि कदाग्रहं मुक्त्रैव नियमपरिपालनं श्रेयस्करमिति वित्त ।। ८९ ।। तथा कथितमपि -
येनाssस्पेन सुमिष्टानं, भक्षितं मयकाऽबले । तस्मिंस्तु वदने भोज्यं कथमद्मि रसोज्झितम् ॥ १ ॥ एवं भव्यस्वयुक्तोऽपि, कदाग्रहयुतो नरः । अन्ते संवरप्राप्तोऽपि दुःखभागी भवेद् ध्रुवम् ॥ २ ॥ अथ हंसकाकबकसदृशेषु साधुषु ८९ -कथा
गोचर्या क गृहे गतेन मुनिना नान्नं गृहीतं ततोऽन्येनाऽऽनिन्दित आदिमोरमुनिं पप्रच्छ किं वो वृषम् । गेहेशा सरला त्रिधा वदति तां हंसैकढ कह्नवत्, हंसाभः प्रथमः परस्तु बलिभुक्तुल्यो वकाभोऽप्यहम् ||१०||
एकदा कश्चिन्मुनिः कस्याऽपि गृहे भिक्षितुं गतः, तद्गृहस्वामिनी गोचरीं दातुमुद्यता बभूत्र । तदानीं तस्या अशुचि शङ्कमानो गोचरीमगृहीत्वैव स ततः परावनुते। ततोऽपरः साधुर्भिचितुमागमव, निश्शंकथ भक्तमग्रहीत् । ततो मिक्षादात्री रामप्राक्षीत् प्रथमो मुनिरजमनादायैवाव्रजतस्य किं कारणम् १ ततो मुनिरब्रवीत् स वश्वको भविष्यति, एवं तं विनिन्द्य गतः । क्षणाऽन्तरे पुनस्तृतीयः साधुः समागतस्तमपि गोचरीदानान्ते सा पृष्टवती हे साधो ! कीदृश एष वो धर्मों यत्प्रथमो भिक्षामलायैव, द्वितीयस्तु भिक्षां
For Private and Personal Use Only