________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
असंख्याः परदोषज्ञा!, गुणज्ञाश्चापि केचन । स्वयमेव स्वदोषज्ञाः, विद्यन्ते किल पञ्चषाः ॥ ३ ॥ छीरमिव जहा हंसा, जे घुट्ठति गुरुगुण समिद्धा । दोसे विवजयंतो, तं जाण सुजाणयं पुरिसं ॥ ४॥
अथ सम्यक्स्वधर्मदाय श्रेणिकनृपस्य ६७-कथानकम्सम्यक्त्वं किल वर्णितश्च हरिणा श्रीश्रेणिकस्यामरो, भूत्वा साधुनिभस्तदा जलचरान गृणाति तत्राऽऽगतः। दृष्ट्वा वक्ति किमाः करोषि ? हि मुने! त्वं सद्दयाहेतवे, दुर्भव्यस्त्वमाप्तीति नो जिनमते कृत्वा स्वरूपं स्तुतः।६७। ___ कदाचित्पुरन्दरपरिषदि सम्यक्त्ववार्ता समुपक्रान्ता तदानीमिन्द्रः श्रेणिकनृपतेः सम्यक्त्वं प्रशशंस । तदाकार्य मिथ्यादृष्टिः कश्चिद्देवो भूपं परीक्षितुं मुनिनेपथ्य विधाय धर्मध्वज मुखपत्तिका दण्ड कम्बलश्चानीय सरस्तटे स्थितः । वत्र मत्स्यान ग्रहीतुं प्रवृत्तस्तं तथा दृष्ट्वा मार्गे गच्छता श्रेणिकेन राज्ञोक्तम्-साधो ! मुनिप्रतीपं कर्म कस्मादनुष्ठीयते ? मुनिवेषञ्च कथं विडम्बयसि ? तदा कपटमुनिमापे-राजन् ! त्वं साधुधर्मविषये किं जानीये? अहं झपानिष्कास्य विक्रीय च कम्बल फ्रेष्यामि, तस्माद्वर्षौ जीवरक्षा भविष्यति । यतो भगवता जलस्पैकस्मिन्विन्दावपरिमिता जीवा भवन्तीत्युक्तम् ते वै जीविष्यन्ति चाज्यथा मरिष्यन्ति। तच्छ्रुत्वा राजाज्योचत् त्वं दुर्भव्योऽनतसंसारी परिदृश्यसे यत्साधुवेषी भूत्वापीदृशं कुकर्म करोषि । जैनशासने तु नैवं काप्यमाणि, जैनागमविरुद्धमेतद् इत्थं तं तिरस्कृतवान्, परमपरं मुनि न निनिन्द । स देव इत्थं नृपं सम्यक्त्वेऽतिदृढं विदिता स्वरूपं प्रदर्श्व भृशं प्रशशंस.. स्वस्थानश्च गतः। ॥६८|| कथितं चापि
For Private and Personal Use Only