SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Tal दृष्टान्त- जगत्पालस्प वा शुभसंज्ञस्य समनि पत्नी मूत्वा निवासः श्रेयान् , एवं संधार्य महानिश्चक्राम । अग्रे पथि यान्ती-अमरपालनामानं 1॥ २८॥ मृतं ददर्श, ततः किचिदग्रे गत्वा धनपालसंज्ञयाचमानमाश्यत, पुनः कतिचित्पदानि यावा लक्ष्मीनाम्नी मिन्धनं विक्रीणतीमवालोकत। इत्थं सवानपि ससाभिधापतिकूलमाचरतो विलोक्य निर्णिनाय-गुणेषु नाम्नां कारणता नास्ति,तस्मादस्माकन्तु ठंठणपालपतिरेव शुभः। तयोक्त, दोहा-अमर मरन्तां मे सुना, भीखन्तां धनपाल । लछमी छाणा वेंचती, भलो छे ठंठणपाल ॥१॥ अय गुणग्राहिणा सन्नरेण भवितव्यं तत्र कृष्णस्य ६६-कथाइन्द्रः संसदि वाक्यमाह नृभवे कृष्णो गुणग्राहको, भूत्वा श्वानमृतः सुरो निपतितो मार्गे तमालोक्य सः । दन्तश्रेणिशुभां शुनोऽपि सकलं त्यक्त्वाऽशुभं दोष, श्रुत्वाऽभूत्प्रकट:सुरो दिवि गतो धन्योऽसि नत्वा हरिम् ॥ जातु शक्रः स्वसंसदीथमभाषत, यसप्रति मर्त्यलोके कृष्णवासुदेवप्रतिमः कोऽपि गुणज्ञो नास्ति । तद्वचनं निशम्य कोऽपि देवः श्रीकृष्णस्य गुणग्राहित्वं परीक्षित प्रेताकररूपं धृत्वाऽध्वनि पपात, ततस्तस्मात् पूतिय निस्ससार कृष्णवासुदेवस्तं विलोक्य तदोषानपहत्य जगाद-अस्य सारमेयस्य द्विजराजी कीदृशी मनोरमा ? एवं मृतना गुणान् जग्राह, दोषांश्च जही। श्रीकृष्णस्यैवं गुणज्ञतां दृष्ट्वा प्रतीतो देवः सस्वरूपमास्थाय श्रीकृष्णस्य चरणौ वन्दे । पुनस्तं संस्तुत्य वरश्च दचा स्वावासमयासीत् । अतो भव्यैर्गुणो ग्राह्यो दोपस्तु हेय एव ॥ ६७ ॥ उक्तश्चापि संसारे सुखिनो जीवा, भवन्ति गुणदर्शकाः । उत्तमास्ते च विज्ञेया, दन्तवीक्षककृष्णवत् ॥ १॥ अमलत्वं रसज्ञाया, मिश्रयोः क्षीरनीरयोः। विविच्य पियति क्षीरं, नोरं हंसोऽपि मुखात ॥२॥ | ॥२८॥ For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy