________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त।। २५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परावर्तत । द्वितीयेऽह्नि मंत्रिसदनमशोधयत् तदन्तर्वेश्मतश्च स्वां भगिनीं निष्कासयामास । ततो राज्ञा निर्वासितः प्रधानो महत योतनामन्वभृत् साधुश्च तत्प्रभावाज्जीवितोऽकालमृत्युना ॥ ५९ ॥ याभिर्गाथाभिस्तस्यार्थो निष्पन्नस्ता अघस्तनाःआधावसि पधावसि ममं चाविणिक्खसि । लक्खितो ते मया भावो, जवं पत्थेसि गद्दडा ! ॥ १ ॥ इओ गया तओ गया, मग्गिज्वंति न दीसति । अहमेवं विजाणामि, अगडे छूढा अडोलिया ॥ २ ॥ सुक्कुमालग ! भद्दलग 1, रतिं हिंडणसीलग ! भयं ते णत्थि मंमूला, दीहपुट्ठाउ ते भयं ॥ ३ ॥ सिक्खिअव्वं मनुस्सेणं, अवि जारिसतारिसं । कीस मूढसिलोगेण, जीवियं परिरक्खियं ॥ ४ ॥ अथ प्रत्युत्पन्नमतेः कपेः ५९-कथा
तीरे चाम्रफलं सदा कविवरो मीनाय दत्ते तदा, लात्वा स स्वगृहे स्त्रियै वदति सा तद्भक्षकं ह्यानय । कृत्वाऽऽरोहणमेत्य तं जलनिधौ मेत्यङ्गना ते हृदं, बद्धं मूढ ! नगे मया किमु कृतं ? बुद्ध्याऽऽगतो जीवितः । ६० । कुत्रचित्समुद्रोपकण्ठे कश्विदाम्रपादपोऽस्ति, तस्य मधुराणि फलानि कपयः खादन्तिस्म । तत्र कस्यचिद्वानरस्य मत्स्येन सह सख्यमभवत्, तस्मात्स झपाय सुस्वादु रसालफलं प्रयच्छति । एवं कुर्वमेकस्मिन्नहनि मीनो माकन्दफलं निजस्त्रिया अदात, भक्षणे माधुर्यतया मत्स्यमवादीत्सा, यो ह्यमूनि फलानि खादति तस्य हृदयं तु मधुरतमं भविष्यति, तस्माद् भोः स्वामिन् ! तमत्रानय, सहृदयाम्यत्रहरणेन मे मानसेप्सितं पूर्ण स्यात् । तदाकर्ण्य झषो हरिमभ्येत्याऽब्रवीत् भो मित्र ! मद्गृहं चलित्वा जलधिजललहरीजनित कौतुकं वीक्षस्व, मद्भार्याऽपि तव प्रेम्णा दर्शनसमुत्सुका विद्यते । अपि च म एत्र सुहृद्वरो यो धन्योन्यमद्यनि
For Private and Personal Use Only
शतकम्
।। २५ ।।