________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
काव्यमाला।
गुरुस्तनाभोगभरेण मध्यतः कृशोदरीयं झटिति त्रुटिष्यति । इतीव काञ्ची कलकिङ्किणीवगैर्मुगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ ६ ॥ नितम्बसंवाहनबाहुलालनश्रमोदभारापनयादिभिर्वनैः । चटूनि चक्रे मुहुरेणचक्षुषां विचक्षणो दक्षिणमारुतः पथि ॥ ७ ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तर्मुच्चैस्तनगुच्छलाञ्छिता । सलीलमुद्यत्तरुणावलम्बिता वनं ययौ कापि लतेव जङ्गमा ॥ ८ ॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च यः ।। विलासिनीनां मलयाद्रिमारुतः स जीव्यते स्म श्वासतानिलैः पथि ॥९॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलन्ती विनिमीलनादृशोः । प्रकाशयन्तीव मनोभवान्धतां जगाम काचिद्वनमेणलोचना ॥ १० ॥ यथाभवन्नूपुरपाणिकङ्कणकणप्रगल्भो मणिकिङ्किणीरवः । उपेयुषीणां वनमेणचक्षुषां तथा पुरो लास्यमधत्त मन्मथः ॥ ११ ॥ उदश्चति भ्रूलतिका मुहुर्मुहुः प्रकम्पते तन्त्रि यदोष्ठपल्लवः । अवैमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुतः ॥ १२ ॥ जगज्जनानन्दविधायिनि क्षणे सृथा त्वयारम्भि मृगाक्षि विग्रहः । मनस्विनीनां सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभः ॥ १३ ॥ अथापराद्धं दयितेन कुत्रचिद्विनोपपत्येति तवाकुलं मनः । परस्परं प्रेम समुन्नतिं गतं भयानि भामिन्यपदेऽपि पश्यति ॥ १४ ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसां चिह्नमदर्शि स भ्रमः । रसेन यस्त्वामभितोऽपि वीक्षते कथं स ते विप्रियमाचरिष्यति ॥ १५ ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभरः स संप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ॥ १६ ॥ कृतेर्ण्ययेव त्वयि दत्तचेतसो गतं क्षुधेव क्वचिदस्य निद्रया । मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तद्वपुः ॥१७॥
१. पल्लवयुक्ता प्रकृष्टकेशयुक्ता च. २. विलाससहिता पक्षिसंचारसमेता च. ३. उच्चैः स्तन-गुच्छलाञ्छिता; उच्चैः स्तनगुच्छलाञ्छिता. ४. तरुणा वृक्षण तरुणपुरुषेण च अवलम्बिता.
For Private and Personal Use Only