SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४ www.kobatirth.org काव्यमाला | शृङ्गे स्वर्णगिरेः स धूर्जटिजटाजूटाग्रपिङ्गत्विषि प्रेङ्खत्पाण्डुशिलां कलामिव विधोः कल्पाधिपः प्रैक्षत ॥ ६७ ॥ संसारार्तिमिव व्यतीत्य पदवीं शुक्लेन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थिताम् । तां कैवल्यशिलामिवर्धरजनीप्राणाधिनाथाकृति प्राप्यार्हन्निरतो व्रतीव समभूदाखण्डलो निर्वृतः ॥ ६८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तमः सर्गः । Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः । अथ सरभसमस्यां न्यस्तविस्तीर्णभास्वन्मणिमयहरिपीठे निर्भरोत्साहयोगः । शरभमिव हिमाद्रेरभ्रमातङ्गकुम्भा जिन पतिमवतार्य स्थापयामास जिष्णुः ॥ १ ॥ मदनभिदमधास्यन्नूनमेनं न मूर्ध्ना यदि कथमपि शेषस्तच्छिलापद्मवेषः । अपि मृदुलमृणाली कोमलस्तद्दुरापां स कथमितरथाप्स्यत्क्षाभरोद्वार कीर्तिम् ॥ २ ॥ किमतनुतरपुण्यैः स्विद्यशोभिः स्वयं वा निजसमयसमेतैरूर्मिभिः क्षीरसिन्धोः । इति सुरपरिपाव्या शङ्कमानैः शिलायाः शिरसि सितमयूखैः लिप्यमाणः स रेजे ॥ ३ ॥ अनुगुणमनुभावस्यानुरूपं विभूतेः समुचितमनुवृत्तेर्देशकालानुकूलम् । अविकलमकलङ्क निस्तुलं तस्य भर्तुः स्नपनविधिममर्त्याः प्रारभन्ते स्म तस्मिन् ॥ ४ ॥ १. अर्धचन्द्राकृतिम् २. मुक्तः; संतुष्टश्व. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy