________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
काव्यमाला |
वाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता चायकः । पदघनगरीयान् पदधनोऽर्थ - निवड : गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्व ॥ विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा
समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिभाम्भोधितनया
समानाली काली विशदचलनानालिकवरम् ॥ ८४ ॥
काली देवी वो युष्माकं विपक्षव्यूहं प्रतीपपटलं दलयतु पिनष्टु । किंविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यसदृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मलौ चलनौ पादौ यस्याः सा । नालिकवरं प्रधान कमलं समध्यासीना अधिरोहन्ती अधिष्टा वा । अम्भोभृतः पयःपूर्णो यो घनो मेघस्तस्य निभा कृष्णवर्णत्वात्समा । अम्भोधितनयासमाना लक्ष्मीतुल्या आल्यः सख्यो यस्याः । विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कबरं मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ॥ चिक्षेपोजितराजकं रणमुखे यो लक्षसंख्यं क्षणा
दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो
दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥
यो नेमिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजकं बलवद्राजवृन्दं रणमुखे चिक्षेप बभञ्ज । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षाममुपचितम् । हे जन, तं नेमिं नम । किंभूतम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा । अहसं हास्यमुक्तम् । राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात्तापदम् पश्चात्तु मुक्तिसुखप्रदम् । नम्राणां निर्वृतिं मुक्ति सुखं वा करोतीति । यश्च स्वामी यदूनां यादवानां दक्ष राज श्रेणि अतीता अतिक्रान्ता आपदो यया सा तामतीतापदं चक्रे कृतवान् । नेमिं किंभूतम् | अञ्जनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य ॥ प्रात्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवा
द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा
यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ ८६ ॥ या उदितमुदयं प्राप्तं ज्यायोऽपि अतिप्रौढमपि राज्यं रज इव विहाय प्रात्राजीत् प्रव्रज्यामग्रहीत् । किंभूता । जितं राजकं राजसमूहो यया सा । संसारमहोदधौ भवम
For Private and Personal Use Only