________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विशतिजिनस्तुतिः। स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं
ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदां हृद्यवचसा
__ ममायासंचारोदितमदनमेघानिल पितः ॥ ८१ ॥ है ममे नमिजिन, ममायासं वितन्वन्ति अघानि पापानि प्रविकिर निरस्य । स्फुरन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य संबोधनम् । हे चारो दर्शनीय । हे दितमद च्छिन्नमद । हे लपित: वादक । केषाम् । हृद्यवचसाम् । कथंभूतानाम् । नमद्भव्यश्रेणीभवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् । उदित उदयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य संहारकत्वादनिलो वात इव तस्य संबोधनम् । हे पितः जनक इव हितकारक ॥
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः
सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः
___ सदा नो दीनानामयमलमदारेरिततमः ॥ ८२ ॥ यो विश्वं इततमो गतमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति । कथंभूतः । नखांशुश्रेणीभिनखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीट: । सदा शश्वत् नोदी प्रेरणशील: । कस्य । नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च । समाहारद्वन्द्वः । तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः । न एवंविधः अदारेरिततमः ॥
जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो
गुरुवाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा
गुरुहो पाता पदघनगरीयानसुमतः ॥ ८३ ॥ कृतान्तः सिद्धान्तोऽसुमतः प्राणिनस्त्रासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । व्याल: सर्पः । रुजो जलोदरादिरोगाः । बन्धनं कारानिरो. धादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुर्महान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अघं पापं च यस्यां सा चासो नगरी च युक्त्या मुक्तिरेव तस्या याने गमने सुत्रु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिभाक् । उरुर्विशालः ।
For Private and Personal Use Only