________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
काव्यमाला । नमः श्रीधर्म निष्कर्मोदयाय महितायते ।
मामरेन्द्रनागेन्द्रैर्दयायमहिताय ते ॥ ५७ ॥ हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कथंभूताय । निर्गत: कर्मोदयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता पूजिता आयतिरुत्तरकाल: प्रभुता वा यस्य । यद्वा महिता आसमन्ताद्यतयः साधवो यस्य तत्संबोधनम् । कैर्मामरेन्द्रनागेन्द्रर्माश्चामराश्च तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः । दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम् ॥
जीयाजिनौघो ध्वान्तान्तं ततान लसमानया।
भामण्डलत्विषा यः स ततानलसमानया ॥ ५८ ॥ स जिनोघो जीयात् । भामण्डलकान्त्या यो ध्वान्तध्वंसं ततानाकृत । किंभूतया । ततो विपुलो योऽनलो वह्निस्तत्सदृशया लसमानया वर्धमानया ॥
भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके ।
संसाराम्भोनिधावस्मानवनौ रक्ष तारिके ॥ ५९॥ हे जिनवराणां वाणि, अस्मानवनी पृथिव्यां रक्ष । किंविशिष्टा । नवा प्रत्यग्रा नौर्मगिनी(१) संबोधनं वा । कस्मिन् । संसाराम्भोनिधी भवसागरे । अक्षतानुपहता अरयः शत्रवः कं जलं यत्र । हे तारिके निर्वाहिके ॥
केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता ।
प्रज्ञप्तिनूतनाम्भोजकरालाभा नयाचिता ॥ ६० ॥ प्रज्ञप्तिदेवी वो युष्माकमयाचिता अप्राथिता लाभान् दद्यात् । किंभता । किन मयूरे तिष्ठतीति केकिस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलवकराला अत्युल्बणा भा यस्याः सा नयेन नीत्या आचिता व्याप्ता ॥
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा
द्रेडकोपद्रुत जातरूपविभया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथास्मरो
द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम् ॥ ६१ ॥ हे श्रीशान्तिदेव, मां रक्ष पालय । जितोऽष्टापदाद्रिरुर्येन तस्य संबोधनम् । कया। तन्वा शरीरेण । किंभूतया । पादैश्चरणै राजन्त्या शोभमानया । किंमतः । नवपद्मरागो नूतनकमलरक्तता तद्वचिरैश्चारुभिः । हे अकोप अक्रोध । पुनस्तन्वा किंभूतया। द्रुतमुत्तप्तं यज्जातरूपं तपनीयं तद्वद्विभा कान्तिर्यस्यास्तया । हे अर्थ स्वामिन् । हे धीर परीषहाद्यक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा शान्ति विभ्रत्या धारयन्त्या । अमरसेव्यया
For Private and Personal Use Only