SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रश्नोत्तररत्नमाला। १२३ कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ॥ कः पूज्यः सद्वत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं 'संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिप्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६ ॥ दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतञ्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विमला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ २८ ॥ रचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । १. 'संसारावासतः' क. २. 'दृष्टादृष्टार्थलाभाय' ख. ३. हितोपदेशेऽपीयमार्या समु. द्धृतास्ति. ४. ख-पुस्तकेऽस्या आर्यायाः स्थाने 'विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः ॥' एतत्पद्यं वर्तते. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy