________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ २९ ॥
इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मलक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो
मङ्कं शक्त्या वियुक्तं संदलमपि जये वाञ्छतीत्युच्छलच्छ्रि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि
र्यचक्षुर्वीक्ष्यमाणं क्षणमहितहति तत्तनोत्वाप्तवक्रम् ॥ १ ॥ भास्वान्भास्वानपि स्वैर्घृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो
नेता नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम् । मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्ते
स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावायद्धि स्पर्धान्यं क्रमत इति सहीतीव धात्रा व्यधायि । मर्यादार्थ यदन्तर्निहितनयनयोः सेतुबन्धायमानो
नासावंशो जिनास्यं दिशतु शमशेनैः शाश्वतं तद्भवद्भ्यः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा
• विभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भुवो याः समर्युः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं
तावेवास्य जिनस्य प्रणुदतु तदघं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः
कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्पार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टि
द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ ५ ॥
१. सदलं सपरिकरमपि २. आप्तस्य जिनस्य मुखम् ३. समर्थः ४. अगुणं • तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिष्ण्यम् ५. खण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य ६. अतिशयेन पृथु. ७. एव. ८. शं सुखम् ९. शीघ्रम्. १०. स्वर्गोत्पन्नाः ११. समागताः.
For Private and Personal Use Only