________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम् ।
निर्विघ्नान्विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषा__ घोराघौधेरैनुद्धापघनसुघटिताशीघ्रमुद्धानिपाणीन् । अर्कोपन्नान र्घान्घटयति लघिमालिङ्गितान्वोऽलघिष्ठा
श्लाघ्यं यस्याङ्गियुग्मं विघटयतु घनं सोऽघसंघातमर्हन् ॥ ५॥ रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि
प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमॅपचितः पण्डितैः खण्डितांहा
स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्ग्रन्थनाथः ॥ ६ ॥ स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क
स्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोज
यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥ ७ ॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाट्या___ न्प्रेङ्खन्तीभिर्नखार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सितार्थ वि बलवदवाक्कल्पवृक्षाः किमेवं
विद्वद्भिः शङ्कयते जीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः ।
१. अनुद्धा अप्रशस्ता अपघना अङ्गानि. २. प्रशस्तहस्तपादान्. ३. अर्पण पूजया आश्रितान्. ४. पूजारहितान्. ५. भयानकभयकर्ता. भयानकभयं कृन्ततीति विरोधपरिहारः. ६. सततं निरन्तरं गृहीतस्य व्रतस्यैकदेशतो भङ्गोऽतिचारः. स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोधः. प्रायो बाहुल्येन चित्तस्य ग्रहीता आवर्जकः सततं निरतिचारश्चानतिक्रमणीयश्चेति परिहारः. ७. अपचितोऽपचयं नीत इति विरोधः. अपचितः पूजित इति परिहारः. ८. निर्ग्रन्थास्तपस्विनस्तेषां नाथो जिनः. ९. चरणयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. १०. बलवदत्यर्थमवाश्चोऽधोमुखाः कल्पवृक्षाः. ११. पूजायां बहुवचनम्.
For Private and Personal Use Only