________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूक्तिमुक्तावली ।
कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना
दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं
कमधं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ॥ संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः
पञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भः पूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः
स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपः कल्पवृक्षः ॥ ८४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चलाक्षमृगवागुरां गुरुकषायशैलाशनि
अथ भावनाप्रक्रमः ।
नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि ।
विष्वग्वर्षमिवोषरक्षितितले दानार्हदचतपः
स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८९ ॥ सर्व ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं भित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते
मुक्तिस्त्रीं परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणीं प्रशमशर्मसंजीवनीं
भवार्णवमहातरीं मदनदावमेघावलीम् ।
विमुक्तिपथवेसरीं भजत भावनां किं परैः ॥ ८७॥
घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् ।
४९
For Private and Personal Use Only
१. 'अपरं हर्तु समर्थ' ख ग २. पञ्चेन्द्रियाणि पञ्चाक्षी ३० ' निस्तारभोगः' ग. ४. 'तपः पादपोऽयम्' क-ग. ५. 'मित्सति' क- ग. ६. 'खण्डयितुमिच्छति' इति टीका. ७ मार्गोपयुक्तामश्वतरीम्.