________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
काव्यमाला।
सारसेनारसे नागाः समरे समरेखया । न न दाननदाश्चेरुर्वाजिनो वाजिनोहताः ॥ ६४ ॥ उद्दण्डं यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधानां तत्र तत्र शिलीमुखाः ॥ ६५ ॥ के न बाणैर्नवाणैस्ते सेनया सेनया हताः । मानवा मानबाधान्धाः सत्वराः सत्त्वराशयः ॥ ६६ ॥ बाणैर्बलमरातीनां सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वदलं कुसुमोत्करैः ॥ ६७ ॥ मूर्धानं दुधुवुस्तत्र कङ्कपत्रक्षता भटाः । प्रभोसमाप्तौ वा प्राणानां रोहुमुत्क्रमम् ॥६८॥(अतालव्यः) त्रुट्यहिटकण्ठपीठास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिणः ॥ ६९ ॥ शरघाताद्गजैीनरसितैरुत्पलायितम् । रक्ताब्धौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तृषोत्तालाः पश्यन्तः शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ ७१ ॥ त्वद्वलैविधमारातिमारातिस्फुटविक्रमः । अखगं व्योम कुर्वाणैः कुवाणैस्तस्तरे तदा ॥ ७२ ॥ संसारसारलक्ष्म्येव वैदा स्वीकृतस्य ते । ईर्ष्णया वर्धितोत्साहा तत्र शत्रुपरम्परा ॥ ७३ ॥ पराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतः सेनया यतमानया ॥ ७४ ॥ (युग्मम्)
१. रसो रागः, शब्दो वा. २. छत्रं, सिताम्भोजं च. ३. बाणा:, भ्रमराश्च. ४. नवशब्दैः. ५. आच्छादितसूर्यकान्तिभिर्वाणः, प्रकटीकृतसौरभ्यैः कुसुमोत्करेश्च ६. भया प्रभया; (पक्षे) भयेन. ७. युद्धात्पलायिता गजा इत्यर्थः. ८. उत्पलवदाचरितम्. ९. विषमा ये अगतयस्तेषां मारो मारणम्. १०. कुः पृथ्वी. ११. परेजिता आशु. १२. यत्नं कुर्वाणया. १३. स्वामिसमेतया. १४. विस्तृताहंकारया.
For Private and Personal Use Only