________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म-निमंत्रितो मनस्येवमचिंतयत्-यदि कश्चिदतिथिः क्षुधितस्तृषितो वात्र समागबेत्तदा वरं भवति.
एवं चिंतयतस्तस्य केचन साधवः क्षुधितास्तृषिताः श्रांताः सार्थान्वेषणतत्पराः समाययुः, तान मु. मंजूषा
नीन दृष्ट्वा मुदमापन्नो नयसारो वंदित्वैवमपृचत्, भो मुनयोऽस्यामटयां यूयं कथं समागताः? य. तोऽत्र शस्त्रिणोऽप्येकाकिनो न पर्यटंतीति नयसारेण पृष्टाः संतस्ते प्रोचुः, राजन ! वयं पुरा सार्थन समं प्रस्थिताः, परं निदार्थ यावद् ग्रामे प्रविष्टास्तावत्सार्थोऽन्यत्र ययौ, सार्थभ्रष्टाश्च वयमत्र समागताः, तत श्रुत्वा नयसारोऽब्रवीदहो सार्थेशो निःकृपः, यतः सह प्रस्थितान साधून मुक्त्वान्यत्र ययौ. एवमुक्त्वा नयसारो मुनीन प्रति पुनरब्रवीत, नो साधवो मत्पुण्यादत्र यूयमागताः, इति कथयित्वा तान् मुनीन नोजनस्थानं निन्ये. ततः शुझानपानः सार्थोपनीतैः प्रत्यलाचयत. साधवोऽपि तत्र ग. त्वा विधिपूर्वकमजुंजत, नयसारोऽपि स्वस्थाने गत्वान्नादिकं भुक्त्वा मुनिसमोपे गत्वैवमवदत्, जो मुनयो मया सह यूयं चलत? यथा नवतां पुरो मार्ग दर्शयामि, मुनयोऽपि तेन सह चलिताः, क्रमेण नगरप्रत्यासन्नतरोरधश्चोपविश्य नयसारस्य जिनप्रणीतं धर्म जगः, यथा
सर्वस्त्यक्तरागादि-दोषस्त्रैलोक्यपूजितः ॥ यथास्थितार्थवादी च । देवोऽर्हन परमेश्वरः ।।१।।
For Private And Personal Use Only