________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः। नां विधाय विपद्य प्रथमे कल्पे महर्डिको देवोऽनृत. अथ तामंतःपुरचैत्यगां देवाधिदेवप्रतिमां दे. मंजूषा
वदत्ताख्या कुब्जिका दास्यपूजयत. प्रभावतीदेवेन बोध्यमानोऽप्युदायनो राट नाबुध्यत, ततस्तेना. वधिज्ञानेन झात्वायमुपायो व्यधीयत, यथा-तापसीजय सोऽन्येय-रुदायननृपंप्रति ॥ दिव्या. मृतफलापूर्ण-पात्रपाणिरुपाययी ॥ १॥ तानि फलानि भुक्त्वा सोऽवर्णयत, यहो! ईदृशानि म्वादुफलानि काप्यदृष्टपूर्वाण्यश्रुतपूर्वाणि अस्वादितपूर्वाणीति. एवं तैः फलमाहितो महीपालस्तं मुनिमपृच्छत् , जो मुने। केदृशानि फलानि संति ? मह्यं तत्स्थानं दर्शय ? तपस्व्यूचे हे राजन्नस्य पुरस्य नातिदुरे ईहरफलजन्मभृष्टिविश्रामो ममाश्रमो वर्तते, राझोक्तं मुने! तमाश्रमं मम दर्श य? मुनिनोक्तं मया सहहि? दर्शयामि तमाश्रम, देवो राजानमेकाकिनं कृत्वा किंचिद्गत्वा तादृग्फलमनोरममनेकतापसाकीर्ण नंदनोपममुद्यानं विचक्रे, तमाश्रमं दृष्ट्वा मोहितो राजा एते मम गुरवोऽहमेतेषां जक्तोऽतोऽहं फलदाणेबां पूरयिष्ये, इति चिंतयित्वा फलादानहेतवे राजा कपिबद्द धावे, तावता क्रोधारुणलोचनास्तापसाः करे दमं धृत्वा राजानं कुट्टयामासुः, तैः कुट्यमानो राजा तस्करवत्पलायिष्ट, पलायमानो राजाग्रे साधूनवस्थितानपश्यत्, राजा तेषां शरणं प्रपेदे, तेः साधुः |
For Private And Personal Use Only