________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 व्याख्या-'णहु सक्क' ति।'ण हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात् , कर्तुं 'जे' इति पादपूरणार्थों निपातः / इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं-विविक्तदेशसंक्रमणम्, केवलिनापि च पुनर्विहारेजलादिजीवानांतद्-उद्धरणम्, इति वाक्यार्थपरिसमाप्तौ। __अयं भावः--केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु, यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतकारणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते / इत्थं सति दण्डसत्त्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति // 75 // अत्र परः शङ्कते'नणु जिणजोगान तहा जलाइजीवाण घायपरिणामो। अचित्तपएसेणं जह गमणं पुप्फचूलाए // 6 // व्याख्या:-'नणु 'त्ति। नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साव्या अवाप्तकेवलज्ञानाया अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषादचित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोऽस्तु, नद्येवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यघातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेयोऽपि सम्पद्यत इति // 76 // अत्र समाधानमाह'जएण सवं एयं जणियं णु तए परोप्परविरुद्ध / दिलुतियदिटुंता जमेगरूवा ए संपन्ना // 7 // 1 ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः / अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः // 76 // 2 भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् / दार्शन्तिकदृष्टान्तौ यदेकरुपौ न संपन्नौ // 77 // For Private and Personal Use Only