________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए नि (वि) हावणयाए परियावणयाए वट्टइ, से तेणढेणं मंडियपुत्ता एवं वुच्चइ, जावं च णं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरियाण हवइ' ति। एतद्वृत्तिर्यथा-क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि। इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् ; सदा-नित्यं 'समियं 'ति-सप्रमाणं 'एयइ' त्ति एजते कम्पते ' एज कम्पने' इति वचनात् ; 'वेयइ 'त्ति व्येजते विविधं कम्पते, 'चलइ' त्ति स्थानान्तरं गच्छति, 'फंदइ'त्ति स्पन्दते किश्चिञ्चलति, 'स्पदि किञ्चिच्चलने' इति वचनात्; अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टइ ' ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुब्भइ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, बिभेति वा; 'उदीरइ'त्ति प्राबल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति / शेषक्रियासङ्गहाथमाह-' तं तं भावं परिणमति ' ति उक्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातोत्यर्थः / एषां वैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यम् ? नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति / तस्स जीवस्स 'अंते त्ति मरणान्ते 'अंतकिरिय' त्ति सकलकर्मक्षयरूपा। ' आरम्भइ 'त्ति आरभते पृथिव्यादीनुपद्रवयति, ' सारंभइ ' त्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ 'त्ति समारभते-तानेव परितापयति, आह च-" संकप्पो संरंभो परितावकरो हवे समारंभो / आरंभो उबद्दओ सबणयाणं विसुद्धाणं // 1 // " इदं च क्रिया क्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् / अथ तयोः कथश्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि / आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह- आरभमाणः' संरभमाणः समारभमाणो जीव:-इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः, “दुक्खावणयाए ' इत्यादौ वा शब्दस्य प्राकृतप्रभवत्वाद् दुःखाप. नायां-मरणलक्षणदुःखमापणायाम, अथवेष्टवियोगादिदुःखहेतुप्रापणायां वर्तते इति योगः; तथा शोकापनायां दैन्यप्रापणायाम, 'जूरावणयाए 'त्ति शोकातिरेकाच्छरोरजीर्णताप्रापणायाम्, 'तिप्पावणयाए ' त्ति ‘तेपापनायां' तिपृष्टेप क्षरणार्थाविति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणमापणायाम, / 'पिट्टावणयाए ' त्ति पिट्टनमापणायाम, ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचि For Private and Personal Use Only