________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir की तहेव कायध्वं सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अति / " एतवृत्तिर्यथा-स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहटु अंतो' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्ज वा लवणाकराशुत्पनं परिभाइ' त्तत्ति दातव्य विभज्य दातव्यद्रव्यात् कश्चिदंशं गृहीत्वेत्यर्थः। ततो नि:सृत्य दद्यात्, तथामकारं परहस्तादिगतमेव प्रतिषेधयेत् , ' तच्चाहचेति सहसा प्रतिगृहीतं भवेत् / तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् -- अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्व मयाऽजानता दत्तम् , साम्पतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् / तदेवं परैः समनुज्ञातं समनुसृष्टं सत्मासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात् , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति / " न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भवतीति शङ्कनीयम् , अधिकृतपुरुषविशेषेऽधिकनिवृत्तितात्पर्यावगाहित्वेनास्य निरवचनाद्, अन्यथा देशषिरत्युपदेशोऽपि न स्यात् , तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् , अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाऽमतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः। यत्तु 'जलं वस्त्रगलितमेव पेयम् इत्यत्र " सविशेषणे०” इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद् , यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनियुक्तौ-१ उस्सिचण-गालण--धोअण्णे य उवगरण-कोस भंडे अ। बायरआउकाए एवं तु समासओ सत्य " // ति / अत्र गालनं 'घनमसणवखान्तेिन ' इति वृत्तौ सम्पूर्य व्याख्यातम् / तच्च त्रिविधं त्रिविधेन निषिदमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तथोपदेशाविरोधाद्, निषिदमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति / यत्तूतं द्रव्यहिंसाया अप्यनाभोगवशादयतनाजम्वत्वेन निषिद्धत्वमेवेति / तत्रायतनाजन्यहिंसायाः कटुकफ 1. उत्सेचन-गालन-धावनं चोपकरण-कोशभाण्डं च / बादराप्काये एतत्तु सैमासमा शस्त्रम् // For Private and Personal Use Only