SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वत्र विधेः प्रवर्तकत्वमभ्युपयन्ति शास्त्रविदः / विधेः प्रवर्तकत्वादेव च कल्ल्यतादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्यं च पञ्चेन्दिसवबरोबला वि कप्पियति निशीथचूर्णायुक्तं न पुनः सहन्तव्य ' इतीति यदुक्तं समिभेदेनार्थपरावर्त्तमात्रम् / यच्च 'सव्ये पाणा' इत्यादिना विरोधोद्भावनं कृतं सन् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात्, तन्निराकरणं चैतत्सूत्रस्याविधिकृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नाल पर्यनुयोगावकाशः। किश्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि कचिदपकादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्याम्-२ छदेण अजो तुम्मे गोसाल मैखलिपुत्तं धम्मियाए पंडिचोअणाए पडिचोएण्ह, धम्मिए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पडोआरेह; धम्मिएहिं अटेहिं हेहिं पसिंणेहि य णिप्पिट्टपसिणवागरणं करेह " / ति एतद्धि गोशालस्य परितापजनकं वचनं भगवतैव लाभं दृष्ट्वाऽऽज्ञप्तम् , न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकर्तव्यः / इत्थं च अवण्णवाई पडिहणेज्ज' ति दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तदयुतमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः , पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्य प्रवचनाहितानिवारणे संसारवृद्धिर्दुलभबोधिता चेति / इत्यं हि प्रघचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तेरिति / यचाहितनिवारणे क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्याशयस्य शुद्धत्वाजिनाराधकत्वं सुलभवोधिकत्वं चोक्तं तदविचारितरमणीयम् , यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् / तदुक्तं बृहत्कल्पवृत्तौ तृतीयखण्डे-" तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् ; स हि कुलादिकार्य चक्रवर्तिस्कन्धावारमपि गृह्णीयाद्, विनाशयेद्वा, न च प्रायश्चित्तमाप्नुयाद् / " इत्यादि / यत्तु तस्य " "हिट्ठाणटिओ वि"-इत्यादिनाऽधस्तनस्थानस्थायि 1. पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्यते इति / 2. तत् छन्देन आर्य ! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत, धार्मिकैरय हेतुभिः प्रश्न निष्पिष्टप्रश्नव्याकरणं कुरुतेति / 3. अवर्णवादिनं प्रतिहन्यात् / 4. अधस्तनस्थानस्थितोऽपि। For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy