________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 वस्यायि सम्भवेन 'स्याद क्रियः' इति भङ्गन्यूनत्वादिति चेत् , स्वसहचरिते स्वकार्ये वा ज्ञानावरणीये प्राणातिपातस्य परिसमाप्तिनिर्वृत्तिभेदप्रकारोपदर्शनपरमेतत् सूत्रम्, न तु तद्वन्धे क्रियाविभागनियमप्रदर्शनपरम्-इत्येषा गतिरिति गृहाण / तदुक्तं तद्वत्तौ-"जीवःप्राणातिपातेन सप्तविधमष्टविधं वा कर्म बध्नाति, स तु नमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बघ्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यन्ते / अपि च कार्येण ज्ञानावरणीयाख्येण कर्मणा कारणस्य प्राणातिपाताख्यस्य निर्वृत्तिभेद उपदय॑ते, तद्भेदाच बंधविशेषोऽपीति / उक्तं च-"तिमृभिश्चतमृभिरथ पञ्चभिश्च क्रियाभिहिंसा समाप्यते क्रमशः। बन्धोऽस्य विशिष्टः स्याद् योगप्रदेषसाम्यं चेद् / इति तमेव प्राणातिपातस्य निर्वृत्तिभेदं दर्शयति-'सिय तिकिरिए' इत्यादीति // अथैवमप्रमत्तस्यैवाक्रियत्वस्वामिनः सुलभखाद् भगवतीवृत्तौ अक्रियत्वं वीतरागावस्थामाश्रित्यैव कथमुपपादितम् ? इति चेत् , स्पष्टवार्थम् / बादरसम्परायं यावत् प्रद्वेषान्वयेन त्रिक्रियत्वाभ्युपगमेऽपि मूक्ष्मसम्परायस्याक्रियत्वस्थानस्य परिशिष्टत्वेनेतदुपपादनार्थम, एतत्पकारस्यावश्याश्रयणीयत्वात् / प्रद्वेषाभावेन तत्र कायिक्यधिकरणिकीक्रियाभ्युपगमे च कायिक्यादिक्रियात्रयस्य परस्परं नियमानुपपत्तिरिति / कायिकी क्रिया द्विविधा-अनुपरतकायिकी क्रिया दुष्णयुक्तकायिकी क्रिया चेति सिद्धान्तेऽभिधानात् कायिकी क्रियाऽऽरम्भिक्या समनियता, प्राणातिपातिकी च प्राणातिपातव्यापारफलोपहित्वात् तव्याप्यवेति प्रतिपत्तव्यम् , तत आरम्भकत्वं प्राणातिपातकत्वं च सत्यामपि द्रव्यहिंसायां प्रमत्तस्यैव नाप्रमत्तस्येति भगवतस्तया तदापादनमयुक्तमेवेति दिक् // 55 // अथावश्यंभाविन्यां जीव विराधनायामाभोगवतो भगवतो यद् घातकत्वमापद्यते तत्कि लोकोत्तरव्यवहाराद्, उत लौकिकव्यवहाराद्, उताहो स्वमतिविकल्पितव्यवहाराद् ? नाद्यः, लोकोत्तरघातकत्वव्यवहारे आभोगेन जीवविराधनामात्रस्यातन्त्रत्वाद्, आभोगेनापि जायमानायां तस्यामपवादपदप्रतिषेविणोऽघातकत्वस्य, अनाभोगेनापि जायमानायां तस्यां प्रमादिनो घातकत्वस्य च तद्व्यवहारेणेष्टत्वाद् / नापि द्वितीयः, यतो लोका अपि नाभोगेन जीवघातमात्रादेव घातकत्वं व्यवहरन्ति, कूपनष्टायां गवि तत्कर्तुर्गोवधकर्तृत्वप्रसङ्गाद्, गोराभोगस्यापि तदा स्फुटत्वाद, आभोगजन्यत्वस्य च हिंसायामसिद्धत्वाद् / हिंसायां हि जिघांसाहेतु राभोगस्त्वन्यथासिद्ध इत्येतद्देोषवारणार्थ मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिंसा वक्तव्या, तथापि काशीमरणोद्देशपूर्वकानुष्ठाने आत्महिंसात्वापत्तिवारणार्थमदृष्टा For Private and Personal Use Only