SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 ति वीतरागत्वेनारम्भादीनामभावादक्रियाः। 'एगा मायावत्तिय' ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कजइति क्रियते भवति: कदाचिदुड्डाहरक्षणमवृत्तानामक्षीणकषायत्वादिति / 'आरंभिय'त्ति प्रमत्तसंयतानां सर्वः प्रमत्तयोग आरंभ इति कृत्वाऽऽरम्भिकी स्यात् , अक्षीणकषायत्वाच्च मायाप्रत्ययेति / तया वत्रैवाष्टशते षष्ठोद्देशक प्रोक्तं- 'जीवेणं भंते ! ओरालियसरीराओ कइ किरिए ? गो० सिय तिकिरिए, सिय चउकिरिए, सियपंच किरिए, सिय अकिरिएत्ति" // एतदत्तिर्यथा-" परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवेणमित्यादि / ' ओरालियसरीराओ'त्ति औदारिकशरीरमाश्रित्य कतिक्रियो जीव इति प्रश्नः। उत्तरं तु 'सिय तिकिरिय'त्ति / यदेकजीवोऽन्यस्य पृथिव्यादेः सम्बन्थ्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीपाद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतखात् स्यात् ' त्रिक्रियः' इत्युक्तम्, न पुनः स्याद् “एकक्रियः' स्याद् 'दिक्रिय' इति / अविनाभावश्च तासामेवमधिकृतधिया ह्यवीतरागस्यैव नेतरस्य, स्थाविधकर्मबन्धाहेतुखाद्, अवीतरागकायस्य चाधिकरणत्वेन प्रदेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे कायिकोसद्भावः / उक्तं च प्रज्ञापनायामिहाथै-“ २जस्स णं जीवस्स काइआ किरिया कजइ तस्स अहिगरणिया णियमा कजइ, जस्स अहिगरणिया किरिया कन्जइ तस्स वि काइया किरिया णियमा कजइ” इत्यादि,। तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति / यदाह- जस्स णं जीवस्स काइया कज्जइ, तस्स पारियावणिया सिय फज्जइ, सिय णो कज्जइ” इत्यादि / ततश्च यदीयकायव्यापारद्वारेणाद्यक्रियात्रय एव वर्त्तते, न तु परितापयति न चातिपातयति, तदा त्रिक्रिय एवेति, अतोऽपिस्यात् 'त्रिक्रिय' इत्युक्तम् / यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यभावाद् / यदा बतिपातयति तदा पञ्चक्रिया, चतुष्कस्य तत्रावश्यंभावाद् / उक्त च-" जस्स पारिआवणिया किरिया कज्जइ तस्स काइया णियमा कज्ज १जीवो भदन्त ! औदारिकशरीरात कतिक्रियः ? गौतम ! स्यात् त्रिक्रिया, स्यात् चतुश्क्रिय. स्यात् पञ्चक्रियः, दक्रिय इति / 2 यस्य जीवस्य कायिकी क्रिया क्रियते, तस्याधिकरणिकी नियमात्क्रियते। यस्याधिकरणिकी क्रिया क्रियते तस्यापि. कायिकी क्रिया नियमात्कियते। 3 यस्य जीवस्य कायिकी क्रियते तस्य पारितापनिकी स्यात् क्रियते, स्यात् नो क्रियते / 4 यस्य पारितापनिकी क्रिया क्रियते तस्य कायिकी नियमात् क्रियते। For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy