________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म्भवादिति न कश्चिद्विरोधः / इत्थं चापवाददशायां प्रमत्तसंयतानां योगानां फलोरहित योग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वेन यथाऽशुभत्वं तथा केवलिन आमवादिकस्य धर्मार्थमत्या धर्मोपकरणस्य धरणेऽपि खन्मतनोत्याऽऽभोगपूर्वकपरिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभखापत्तिः स्फुटैवेति / ... अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदास्यादयं दोषः, अपबादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिषिद्धप्रतिषेवणात्मकत्वेन स्वरूपतः सावद्यत्वात् ; निरवद्यत्वं चास्य पुष्टालम्बनप्रतिषेवितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्चित्तप्रतिपत्त्यादिना सोपाधिकमेव / यारि" 'गंगाए णाविओ णंदो” इत्यादिव्यतिकरोपलक्षितस्य धर्मस्वेरनगारस्य नाविकादिव्यापादनप्रवृत्तिः सापि परमार्थपर्यालोचनायां पुष्टालम्बनैव, तत्कृतोपास्य ज्ञानादिहानिहेतुत्वाद्, ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिषिद्धपतेः पुष्टालम्बनमूलसात् : केवलं शक्त्यभावाभावाभ्यां पुष्टालम्बनतदितरापादयोः प्रशस्ताप्रशस्तसअवलनकषायोदयकृतो विशेषो द्रष्टव्यः; ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवा पि।। . यच्च धर्मोपकरगधरणं तद्वयवहारनयप्रामाण्यार्थ , व्यवहारनयस्यापि भगवतः प्रमागोकर्तव्यखाद् / इत्थं च 'श्रुशोदितरूपेण धर्मोपकरणधरणेन केवलिलक्षणहानिः, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिषेवणाद्, अत एव"२ववहारो वि हु बलवं जं वंदइ केवलो वि छउमत्थं / आहाकम्मं भुंजइ मुअववहारं पमाणतो" // 1 // न केवलं निश्चयोऽपि तु स्वविषये व्यवहारोऽपि बलवान् / यद्यस्मात्कारणात् समुत्पन्नकेवलज्ञानोऽपि शिष्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दनादिविनयं करोति, तथापि व्यवहारनयमनुवर्त्तमानः पूर्वविहितविनयो गुरुं वन्दते-आसनदानादिकं च विनयं तस्य तथैव करोति, यावदद्यापि न ज्ञायते, ज्ञाते पुनर्गुरुरपि निवारयत्येवेति भावः। अपरं च-"अतीवगूढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच श्रुतोक्तपरीक्षया परीक्षमाणे नाप्यशठेन छमस्थसाधुनाऽविज्ञातं गृहीला केवलिनिमित्तमानीतं यथावस्थित 1 'गंगायां नाविको नन्दः' इत्यादि आवश्यककथानके द्रष्टव्यम् / 2 व्यवहारोऽपि खलु बलवान् यद् धन्दते केवल्यपि छमस्थम् / आधाकर्म भुङ्क्ते श्रुतव्यवहारं प्रमाणयन् // For Private and Personal Use Only