________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. 'ते इय'त्ति / ते एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्या इत्यमुना प्रकारेण, यदुत एष नियमो-यस्य योगात् कदाचिदपि जीववधो भवति स न केवलीत्येवंलक्षणः कथं ते भवतां सिद्धः ? यद्यस्मात्कारणाद् योगवतः प्राणिन आत्रयोदशगुणस्थानमशक्यपरिहारा हिंसा दुर्वारा, योगनिरोधं विना तस्याः परिहर्तुमशक्यत्वात् , तदीययोगनिमित्तकहिंसानुकूलहिंस्यकर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्तौ केन वार्यतामिति / अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति घेत् , न / अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्यपरिहारत्वाद् , योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्यपरिहारत्वादिति विभावनीयम् / नन्वीदृश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षा प्रयत्नः क्रियते न वा ? आये न क्रियते चेत् , तदाऽसंयतत्वापत्तिः। क्रियते चेत् तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः; सा च केवलिनो न सम्भवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद् , अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केवलित्वं न सम्भवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते / तदुक्तमावश्यकनियुक्ती " सव्वं च देसविरइं सम्मं पिच्छइ य होइ कहणाउ / इहराअमूललक्खो ण कहेइ भविस्सइ ण तं वत्ति // 1 // " ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न सम्भवतीति चेत् // न, यथाहि-भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः स्वल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत तेषु कर्णशूलायते / यत उक्तं सिद्धसेनदिवाकरैः" सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु स॒याशवो मधुकरीचरणावदाताः // 1 // " इति / सर्वां च देशविरतिं सम्यक् पश्यति च भवति कथनात् / इतरथा अम्रललक्ष्यो न कथयति........... For Private and Personal Use Only