________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मया सत्यं वक्तव्यम् , सस्बिाजकवेषाभिप्रायेण कपिलापेक्षया स्वसल्यमित्येवं भावभेदादेवेदमुत्सूत्रामिश्रमिति चेत्, न, एतादृशभावयोरेकदाऽसंभवात् , उपयोगद्वययोगपचाभ्युपगमस्यापसिद्धान्तत्वादः / एक "एवायं समूहालम्बनोपयोग इति चेत्, तर्हि केन कस्य मित्रत्वम् / नियमतः पदार्थद्वयापेक्षयैतदिति विषयभेदादेकत्रापि मिश्रत्वमिति चित् / लहिं गतं केवलेनोल्सूत्रेण, सर्वस्याप्यसत्याभिप्रायस्य धयंशे सत्यत्वात्"सर्व ज्ञानं धमिण्यभ्रान्तं प्रकारे तु विपर्ययः" इति शास्त्रीयमवादप्रसिद्धः / तर्हि प्रकारभेदावस्तु मिश्रत्वम्, एकत्रच वचने सत्या. ‘सत्यबोधकत्वावच्छिन्नप्रकारभेदोपरक्ताभिप्रायोपश्लेषादुत्सूत्रमिश्रस्वसंभवादिति चेत् / न, सूत्रकथनांशेऽभिप्रायस्य प्राबल्येऽनुत्सूत्रस्योतलू'प्रकथनांशे तत्प्राबल्ये चोत्सूत्रस्यैवं संभवान्मिथ्याव्यपदेशेन मिश्रस्यानवकाशाद् / अन्यथा 'क्रियमाणं न कृतम्' इत्यंशेऽसत्यं प्रतिपादयामि इतरांशे च सत्यमिति मिथ्याव्यपदेशेन वदतो जमाल्यानुसारिणोऽपि नोत्सूत्रं स्यात् किन्तूत्सूत्र मिश्रमिति महक्समसजम् / अपि च-इदं मरीचिवचनमुत्सूत्रामिश्रमिति बदत्ता मूलत एव जैनी प्रकीया न ज्ञाता / यतः सूत्रोत्सूत्रव्यवस्था तावच्छुतभावभाषामाश्रित्य क्रियते / सा च सत्यासत्यानुभयरूपत्वात् त्रिविधैष दशवकालिकनियु'क्त्यादिसिद्धान्तप्रतिपादिता / पराभिप्रायेण तु मिश्ररूपाया अपि "तस्याः सिद्धौ भगवद्भद्रबाहूक्तविभागव्याघातप्रसङ्ग इति न किंचिदेतत् / इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेघेदं वचनं कपिलापेक्षया च 'विपर्यासबुद्धिजनकत्वज्ञानेऽपीथमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथंचिंदनाभोगहेतुकमुत्सूत्रमिति वदतो माता च मे पन्ध्या चेति न्यायापात इति द्रष्टव्यम् / किंच-तस्योत्सूत्राभोगो मासीदित्यपि दुःश्रद्धानम् , व्युत्पन्नस्य तस्य तादृशास्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् / न च साधुभक्तस्य तस्य तथोत्सूत्रभाषणमसंभाध्यमिति शङ्कनीयम् , कर्मपरिणतेर्विचित्रत्वाद् / अस्पष्टत्वं च तत्राभिमतानमिमतविधिनिषेधावधारणक्षमत्वलक्षणं न, उत्सूत्राभोगाभार वात् ; किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसंक्ले 'शात् / अत एव स्फुटामरूपणमप्यस्यास्पष्टताख्यजातिविशेषशालिन्यु. For Private and Personal Use Only