________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्वगुणविशेषप्रदर्शनार्थ मिथ्याग्गुणमात्रस्य शास्त्रेकिंधिकरत्वप्रतिपादनं नैतावता सर्वथा तद्विलोप एव सिध्यति, चारिचगुणविशेषप्रदर्शनार्थ "दसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चइस्स / अणुत्तरा दंसणसंपया सिया विणा चरित्तेण हरं गई गया // "-- इत्यादिना सम्यक्त्वस्यापि तत्प्रतिपादनादिति द्रष्टव्यम् // 43 // तदेवमन्येषामपि मार्गानुसारिगुणानामनुमोद्यत्वसिद्धौ सम्यंग्इशाऽन्येषां गुणा नानुमोद्या एवेत्युत्सूत्रं त्यक्तव्यम् , स्तोकस्याप्युत्सूप्रस्य महानर्थहेतुत्वादित्युपदेशमाहता उस्मुत्तं मुत्तुं अणुमोइज्जा गुणे उ सब्वेसि / जं थोवावि तओ लहेज दुख्खं मरीइव्व // 44 // _____ता उस्सुत्तति / तत् तस्मात्कारणादुत्सूत्रं मुक्त्या, तुरेवकारार्थः स च 'सर्वेषाम्' इत्यनन्तरं योज्यः; सर्वेषामेव गुणाननुमोदेत; भव्य इति शेषः / यद् यस्मात्स्तोकादपि तत उत्सूत्रान्मरीचिरिव दुःखं लभते / मरीचिर्हि "कविला इत्थंपि इहयंपि” इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान् , ततो यो मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रबादी तस्य किं वाच्यमिति भावः॥ - अब केचिदाहुमरिचिरुत्सूका दुःखं लब्धवानिति वयं न सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात् , तेन चासंख्येयसंसारार्जनात् , तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं नतूत्सूत्रमिति प्रतिपत्त तत उत्सूत्रं मुक्त्वाऽनुमोदेत गुणान् सर्वेषाम् तु / यत्स्तोकादपि ततो लभेत दुःखं मरीचिरिव // 44 // 1 दशारसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकेः / अनुत्तरा दर्शनसम्पद् स्याद् बिना चारित्रेणाधरां गतिं गता // 3 कपिल ! इत्थमप्यत्रापि / : For Private and Personal Use Only