________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम्
सर्गः १
॥३॥
सहस्रयोजनायामा-त्तदर्ध चैव विस्तृतात् । हिमवत्पर्वतोर्द्धस्था-नदात्पद्माभिधानतः ॥ २२ ॥ पूर्वपश्चिमयोारा, निर्गत्य शतपञ्चकं । योजनानां परावृत्य, दक्षिणाभिमुखं ततः ॥२३ ।। तावदेव त्रयोविंश-त्यधिकं च कलात्रिकं । पर्वतादिनिपत्याधो, गङ्गासिन्ध्वाख्यकुण्डयोः ॥ २४ ॥ निर्गत्य दक्षिणद्वारा, भित्त्वा वैतायभूधरं । यावद्दक्षिणखण्डाई, पूर्वापरमुख ततः ॥२५ ।। तरलोन्वितहारस्य, वक्षःस्थलकृतस्थितेः । विश्वम्भरामहेलाया, विभ्रतीभ्यामिह श्रियम् ॥ २६ ॥ गङ्गासिन्धुस्रवन्तीभ्यां, वहन्तीभ्यां निरन्तरं । षटवण्डं भारतं क्षेत्र, विहितं किल वर्तते ॥ २७ ॥ नवभिःकुलकम्।।तत्र दक्षिणखण्डेषु, मध्यखण्डं मनोहरं । यत्राहच्चक्रवल्या , उत्पद्यन्ते नरोत्तमाः २८ जिनविम्बमिवद्वेधा, नगरं सुप्रतिष्ठितम् । तत्राभूत्सुमनोमाला-कलितं दोषवार्जनम् ॥ २९ ॥ जितशत्रुपस्तत्र, सुचरित्रो नयान्वितः । जिनागम इव श्रीमान , संदङ्गरुचिरोऽभवत् ॥ ३०॥ अभूत्तस्यप्रिया रम्यं-दालङ्कारधारिणी । धारिणी नाम हृद्येव, सुकवेः काव्यपद्धतिः॥ ३१ ॥
१ चपलहारस्य श्रियं शोभाम्. २ पृथ्वीरूपस्त्रियाः ३ नाम्नागुणेन च. ४ जिनबिम्ब सुमनसां पुष्पाणां मालाभिः सहित | नगरं च सुबुद्धिमलोकसमूहेन सहितम्. ५ सप्तनयभङ्गया सहितो जिनागमः, नृपश्च राजनीत्यान्वितः. ६ मनोहरगात्रेण रुचिरो नृपः, सुद्वादशाङ्गया रुचिरो जिनागमः. ७ रम्यान् पादयोरलकारान धारयतीति तथा प्रिया, काव्यपद्धतिः रम्यान् पदानि चालङ्कारांश्च धारयति -
For Private and Personal Use Only