________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र
॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुटुम्बचिन्तनव्यग्र - मानसानां निरन्तरम् । सदारम्भप्रवृत्तानां भावनापि सुदुर्लभा ॥ ९ ॥ तस्माद्दानं गृहस्थाना—मुचितं रुचितं हितं । भवसर्वङ्कषं हेतु-र्मयममृतश्रियः ॥ १० ॥ धन्यश्च शालिभद्रश्च कृतपुण्यादयो नराः । साधुदानप्रभावेण बभूवुः सुखभाजनम् ॥ ११ ॥ सरसानि चरित्र, णि, तेषामेकैकशोऽपि हि । खण्डाज्यपायसानीव, किं पुनर्मिलितान्यहो ॥ १२ ॥ आदौ धन्यमुनेस्तत्र चरितं परिकीर्त्यते । शालिभद्रचरित्रेग, पवित्रेग विमिश्रितम् ॥१३॥ तथाहिजम्बूद्रीपाभिधो द्वीपो, विद्यते क्षितिमण्डले । सर्वद्वीपसमुद्राणां मध्यवर्ती महालयः ॥ १४ ॥ सम्पूर्ण पूर्णिमाश्वेत- चिर्मण्डलसन्निभः । विष्कम्भायामतो लक्षं, योजनानां प्रमागतः ॥ १५ ॥ सहस्रदशकेनाधो, योजनानां विसारिणा । मध्ये योजनलक्षोचे-नेन्द्रशैलेन शोभितः ॥ १६ ॥ वज्रमय्या जगत्या च योजनाष्टकतुङ्गया । सर्वदिक्षु परिक्षिप्तः, प्राकारेणेव सत्पुरम् || १७ || वर्षेः सप्तभिराकीर्णः, षड्भिः कुलमहीधरैः । सूर्ययेन्दुयुगल - समुद्योतित भूतलः ॥ १८ ॥ पञ्चभिरादि कुलकम् । तत्र दक्षिणतो मेरो द्वीपान्तेऽम्भोधिसन्निधौ । समारोपित जीवस्य, कोदण्डस्याकृतिं दधत् शतानि पञ्च षड् विंशत्यधिकानि कलाश्च षट् । योजनानां प्रमाणेन मितं विष्कम्भतस्तथा ॥ २० ॥ पूर्वापरायतेनान्त-विनिपत्य समांशतः । कुड्येनेश्वरसव, वैतान्येन विधाकृतम् ॥ २१ ॥
१ मनुष्यदेव मोक्ष लक्ष्म्याः २ महान् आलय प्रासाद इव आलय: महालय:. ३ श्वेतरोचिश्चन्द्रः. ४ इन्द्रशैलो मेरु:.
For Private and Personal Use Only
महाकाव्यम् सर्गः १
॥ २ ॥