________________
Shri Jain Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥ ३७३ ॥
www.kobatirth.org
Acharya Shri Kasuri Gyanmandir
न्युरूचे सखि ! रमयसि यद्यमुं विदग्धां त्वाम् । तन्मन्ये साऽप्यूचे लघु रमितमिमं मया विद्धि || १८ || इति ते विवादविवशे क्रीडित्वा निजनिजं गते धाम । अथ पंडितया धात्र्या तद् ज्ञात्वा राज्ञ्यदो जगदे ।। १९ ।। फणिफणरत्नं लातुं सटाकट हरेः समुत्खनितुम् । गजपतिरदो ग्रहीतुं वरं प्रतिज्ञा कृता वत्स ! || २० || परमार्हतधौरेयं सुदर्शनं रमयितुं न तु कदाचित् । अहहह हा ही मुग्धे ! तन्ननु बृहदंतरे मूढा ||२१|| अभयाऽऽह सकृत्तं मे समर्पयानीय तदनु भलिताऽहम् । तस्यानयनोयायान् सुबहून् सा चिंतयंत्यस्थात् ||२२|| साऽथ निशि चतुर्मास्यां राज्ञी पूजामिषात् समानिन्ये । वेश्मन्यस्खलितवसनच्छन्ना यक्षादिलेप्या| र्चाः||२३|| पश्चात् शून्यगृहस्थं सुदर्शनं विहितपौषधप्रतिमम् । आजानुलंविभुजयुगमानीय पुरोऽमुचद् देव्याः।। २४ ।। कुमुमशरशबरशरभिन्नहृदयया पापविभययाऽभयया । उपसर्गितः स बहुशोऽप्यचलन्न महामनाः शीलात् ||२५|| अथ वीक्षापन्ना स्वतनुमत| नुकोपा विलिख्य नखविशिखैः । पूच्चक्रे कोऽपि बलात्कारमसौ मयि चरीकतिं ||२६|| श्रुत्वेदं प्राहरिकास्तत्रागुर्वीक्ष्य सुदर्शनं नूनम् । अत्र संभवमिदमित्युक्त्वा राज्ञे समाचख्युः ||२७|| राज्ञाऽभयैव पृष्टा जगदेकस्मात् कुतोऽप्ययमित्य । प्रकटितचटुकोटिम रंतु| मयाचिष्ट पापिष्ठः ||२८|| ऊचे मयैष मैपीरसतीरिव रे सतीरपि हताश ! । किं चर्व्यते चणका यथा तथा मूढ ! मरिचानि ॥ २९ ॥ | तदनु च बलिनाऽप्यमुना कृतमेतत् पूत्कृतं मयाऽप्युच्चैः । न घटत इह खल्विदमिति पुनः पुनस्तं नृपोऽपृच्छत् ॥ ३० ॥ स तु कृपया न किमप्याह नृपतिनाऽचिंति न खलु शुद्धोऽयम् । यलक्षणमाद्यमिदं परललनालोलचौराणाम् ॥ ३१ ॥ कोपाटोपात्तलवर आदिष्टो विहितवध्यमंडनकम् । खरयानं श्रेष्ठिवरं प्रारेभे भ्रमयितुं नगरे ||३२|| कृतशुद्धांतागस्को निहन्यते न्यायचंचुना राज्ञा । | श्रेष्ठी सुदर्शनोऽसावित्युच्चैर्घोषयामास ||३३|| ध्रुवमिह न घटत इदमिति पूत्कुर्वति पुरजने हहाकारम् । स भ्रममाणो ह्येवं निजस
For Private And Personal
मनोरमाकथा
॥३७३ ॥