SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mapa Jain Aradhana Kendra श्रीदे० चैत्य० श्री धर्म० संघाचारविधौ ॥३७२ ।। www.kobatirth.org Acharya Shri Kailashgarsuri Gyanmandir ॥१॥न्ति,सुदशनश्रेष्ठिप्रियामनोरमाकथा त्वियं-चंपायां पुरि दधिवाहनस्य नृपतेर्द्विधा दयितकीर्त्तेः । अभयाख्याऽभूदेवी देवीव सुरूपरूपधरा || १|| तत्रैव ऋषभदासः श्रेष्ठी श्रेष्ठैककर्म्मकरणचणः । अर्हदासी भार्या महिषीरक्षाकरः सुभगः ॥ २ ॥ सोऽन्येद्युः शिशिरत्तों दिनात्यये सैरिभीः समादाय । बनतो निवृत्त उत्सर्गसंस्थमैक्षिष्ट मुनिमेकम् ॥ ३॥ तमगणितहिमानीपात वेदनं क्षणमुपास्य सद्म ययौ। ध्यायंस्तमेव रात्रिं निनाय निद्रादरिद्रोऽसौ ||४|| गत्वा प्रगे मुनिं तं यावदयं नमति पर्युपास्ते च । स नमो अरिहंताणं इत्युक्त्वा खं ययौ तावत् ||५|| नूनं खगामिनीयं विद्येति पपाठ सततमशठमनाः । तमपीपठदथ लष्टः श्रेष्ठी सकलं नमस्कारम् ||४|| वर्षासमयेऽन्येद्युर्महिषीः परतीरगा निवारयितुं । सरिदंतरदाज्झंपां गुणयन्नुच्चैर्नमस्कारम् ||७|| चिक्कणचिक्खल्लचछुट्टकीलविद्धोदरः क्षणात् प्राप । मृत्युं पंचनमस्कारस्तुतिं गुणयन् सुभगाशयः सुभगः ॥ ८ ॥ तत्रैव ऋषभदासार्हदास्योः प्रवररूपलावण्यः । सूनुः सुदर्शनाख्योऽजनि रजनिकरावदातयशाः॥९॥ उपयेमे सुमनोमुकुलाकृतिं स तु मनोरमां कन्याम् । असपल शीलरत्नालंकारां जिनमते निपुणाम् ॥ १० ॥ कपिलः पुरोहितस्तस्य मित्रमभवत्ततो भृशं श्रुत्वा । कपिलाख्या तद्भार्या सुदर्शगुनणान् सुरूपादीन् ॥ ११ ॥ अनुरक्ता ग्रामगते भर्त्तरि तत्तन्वपाटवमिषेण । निन्ये तं निजसद्मनि रिरंसुरथ तमार्थयत बहुधा ||१२|| स तु मोचितवांस्तस्या अपंडिते ! पंडकोऽहमित्युक्त्वा । नैको गंता परगृहमित्यभिजग्रहे तदा सुमनाः ||१३|| कपिलसुदर्शनसहितो राजा रंतुं गतोऽन्यदोद्याने । कपिला षट्सुतसंयुतमनोरमायुगभयाऽपि मुदा ।। १४ ।। कपिला प्राक्षीदभयां मनोरमां वीक्ष्य देव ! केयं स्त्री १ । साऽऽह सुदर्शनगृहिणी कपिलोचे तर्हि कथमस्याः || १५ || एतावंतस्तनया ? यत्पतिरस्या नपुंसको राज्ञी । आह कथं बुबुधे त्वं ? कपिलाऽऽख्यत् पूर्ववृतान्तम् ||१६|| प्रोचे विहस्य राज्ञी सत्यं षंढोऽयमन्यवनितासु । नूनं विदग्धधुर्येण तेन त्वं वंचिता मुग्वे ! ॥ १७॥ कपिला सम For Private And Personal मनोरमाकथा ॥३७२॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy