SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ n Aradhana Kendra Shi Acharya Shri Ka www.kcbatirth.org y anmandie सुरस्मर श्रीदे चैत्यश्री- धर्म संघाचारविधौ | ॥३७१॥ स्तवनीया इत्यर्थः, श्लाघ्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिप्रशंसायाः कर्मक्षयकारणत्वात् , उक्तं च-"गुणपगरिसबहुमाणो कम्मक्खयकारणं जेणं"ति, नैवं चेत् तदोत्तरसंयमस्थानवतिभिः साधुभिर्जघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युः, तैश्च नियमादिषु दृढाः श्रावकाः, न चैतदागमे दृष्टमिष्टं वा यद् गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाप्तेः, आह च-"नो खलु अपरिवडिए निच्छयओऽमइलिए व सम्मत्ते। होइ तओ परिणामो जत्तो अणुववृहणाईय॥१॥"त्ति, | देशविरतानां वा अविरतानां वा अविरतसम्यग्दृष्टयः श्राद्धाः सत्काराबर्दा न स्युः, तथा च सति "तम्हा सवपयत्तेणं, जो नमुकारधारओ। सावओ सोऽवि दट्ठव्वो,जहा परमबंधवो ॥१॥" इत्याद्यपार्थकं स्यात् , एवं च सकलागमव्यवहारलोपाद् , विमर्शनीयमिदं सूक्ष्मधियेति,यद्वा मारणीयाः-सरणादिषु प्रेरणाः ,तत्र पम्हुढे गाहा, अयमर्थः-वैयावृत्यादिकारका गीयंते, तत्र चानादरवतां भवतां तत् किं स्वकृत्यमपि विस्मृतं ?,न युक्तमत्र प्रमादयितुं, दुर्लभा हि पुनरियं सामग्री,दुःखदः प्रमादारिदुरंतो भवोदधिविनिपातः खनामैव सत्यापयतीत्यादिव्यंग्यार्थगर्भतद्विशेषणद्वारेण मारणादि क्रियते, अथवा सारणीयाः संघादिकृत्ये वैयावृत्त्यप्रभावनादावुभयलोकसुखावहे प्रेरणास्तित्करणशक्तियुक्तत्वात्तेषां,इदमुक्तं भवति-यदाऽमुकं संघे प्रभावनादि करिष्यथ तदाऽहं कायोत्सर्गादिकं पारयिष्यामीत्यादिना सुदर्शनप्रियामनोरमाया इत्र तत्र २ संघकृत्ये प्रवर्तयितव्याः, अत्र चायं निशीथचूर्युक्तो विधिः-पुव्वं अणुसिट्ठी किजइ, थुइत्ति भणियं होइ,अणुसिट्ठी थुइत्ति एगटेति भाष्यवचनात् ,साहु कयं ते एवं वुच्चइ,जहा चंपाए सुभद्दा नागरजणेण अणुसहा धन्ना सपुण्णा सत्ति, तओ उवालंभो दिजइ,साणुणओवएसपयाणं कीरतित्ति वुत्तं भवइ२ पच्छा सो उ उवग्गहो किज्जइ ३, भणियं च-दाणे दवावणे कारणे य करणे य कयमणुनाए । उवहियमणुवहिय वा जाणाहि उवग्गहं एय ॥३७१॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy