SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra www.kobatirth.org यतः सकर्णस्य चारित्रधर्मे प्रमादः कर्तुं न युज्यते ततः किमित्याह- 'सिद्धे भो पयओ' इत्यादि, सिद्धे - फलान्यमिचारेण परिनिष्ठिते, नातो विधिप्रवृत्तः फलेन वच्यते इति भावः १, सर्वनयव्यापकत्वेन च प्रतिष्ठिते२ विधिप्रतिषेधा१नुष्ठाना२मिधेया ३ विरोधलक्षण कप १च्छेद २ तापाख्य ३ त्रिकोटिपरिशुद्धत्वेन च प्रख्याते ३, भो इत्यतिशयिनामामंत्रणे, पश्यंतु भवंतः प्रयतोयथाशक्ति प्रकर्षेण यतोsहं, लोकव्यवहारवत् धम्र्मोऽपि ससाक्षिकः सम्यक् स्यादिति ज्ञापनार्थं 'भो' इत्युक्तं नमः अस्त्वितिशेषः, जिनमते - चतुर्थ्यर्थेऽत्र सप्तमी, यस्मिन् मते किं ? - नंदिः - समृद्धिः सदा संयमे - चारित्रे, भवति इत्युपस्कारः, यदा - "पढमं नाणं तओ दया" इत्यादि, किंविशिष्टे संयमे १ - “ देवनाग सुवन्नकिन्नर गणसन्भूअभावच्चिए इति, देवतानागसुवर्ण किभरगणैः सद्भूतभावेन अर्चिते, संयमवंतो ह्यर्च्यन्ते एव देवाद्यैः, तत्र देवा वैमानिका नागा- धरणादयः शोभनवर्णाः सुवर्णाःज्योतिष्काः किंनरा - व्यंतरविशेषास्तेषां समूहः, अत्र वकारेऽनुखारः प्राकृतत्वात् सकारस्य द्वित्वं च, किंभूते जिनमते :-लोको ज्ञानं यत्र प्रवचने प्रतिष्ठितः - तद्वशीभूतः तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः केचिन्मर्त्यलोकमेव जगन्मन्यंत इत्याह‘त्रैलोक्यमर्थ्यासुरं— आधाराघेयरूपं, तत्र त्रैलोक्यं - ऊर्ध्वाधस्तिर्यग्लोकलक्षणं तस्मिन्, मर्ध्यासुरमित्युपलक्षणत्वान्नारकतिर्यगादिपरिग्रहः, अथ इत्थंभूतो धर्मः - श्रुतधम्र्मो वर्द्धतां - वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः विजयतः - परवादिविजयेन धर्मोत्तरं - चारित्रधर्मस्य प्राधान्यं यथा भवति एवं वर्द्धतां पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्धिर्विधेयेत्युपदेशार्थं । प्रणिधानमिदं मोक्षबीजकल्पं परमार्थतोऽनाशंसारूपमेवेति, भवति चेत्थं विवेकजल सिक्तं प्रार्थनारोपणाभ्यासेन शालिवृद्धिवत् श्रुतधर्म्मवृद्धिः, एवं प्रणिधानं कृत्वा तत्पूर्विका क्रिया फलायेति श्रुतस्य वंदनाद्यर्थं कायोत्सर्गाय पठति - 'सुयस्स भगवओ इत्यादि, वोसिरामी' बि श्रीदे● चैत्य०श्रीधर्म० संघा - चारविधौ ॥३३१॥ For Private And Personal Acharya Shri Kailash un Gyanmandir श्रुतस्तवः ॥३३१॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy