________________
Shri
M
n
Aradhana Kendra
www.kobatirth.org
n
Gyanmandie चतुर्विंश
MARPAN
तिस्तवः
श्रीदे. चैत्यश्रीधर्म० संघा
चारविधी ॥३२३॥
WAITION
Acharya Shri Kaita सुमई कयं नामं ॥१०॥ निष्पंकतामाश्रित्य पद्मस्येव प्रभाऽस्येति पद्मप्रभः,गर्भस्थे प्रभोर्मातुः पद्मशयनदोहदो देवतया पूरित इति पद्मवर्णश्चेति पद्मप्रभः६ शोभनानि पार्थानि अस्येति सुपार्श्वः गर्भस्थेऽस्मिन् माताऽपि सुपार्था जातेति सुपार्श्वः७ चंद्रवत् सौम्या प्रभाऽस्येति चंद्रप्रभः, गर्भस्थेऽस्मिन् मातुश्चंद्रपानदोहदोऽभूदिति चंद्रप्रभः८ शोभनो विधिरस्येति सुविधिः गर्भस्थेऽस्मिन् माताऽपि सर्वविधिषु कुशला जातेति मुविधिः९ समस्तसत्वानामांतरतापोपशमकत्वात शीतलः गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः | पित्तदाहो रानीकरस्पर्शादेवोपशांत इति शीतलः१० विश्वस्यापि श्रेयान् हितकर इति श्रेयांसः गर्भस्थेऽस्मिन् केनाप्यनाक्रांतपूर्वा देवताधिष्ठिता शय्या जनन्या आक्रांता श्रेयश्च जातमिति श्रेयांसः ११ वसवो-देवविशेषास्तेषां पूज्यो वसुपूज्यः, स एव वासुपूज्यः, गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैरभीक्ष्णं वासवो राजकुलं पूजितवान् वसुपूज्यस्य गोत्रापत्यमिति वा वासुपूज्यः१२ विमलानि ज्ञानादीन्यस्येति विगतमलो वा गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति विमलः१३
अत्र संप्रदायः-पइमरणमि सवत्तीदुगस्स कयवम्मनिवपुरो जाए। पुत्तग्गहणविवाए सामादेवीइ तं नाउं ॥१॥ आणाविय सहमज्झे पुत्तस्सद्धे दवाविउं सुतं । आणावइ करवत्तं ता जणणी भणइ किमिणति ।।२।। देवी जंपइ दाहं पुत्तं वित्तं च णे दुहा काउं। पडिवन्नममायाए मायाए जंपियं देवि! ॥३॥ मा माऽऽणवेसु देवि! एवं पुत्तपि वित्तमेयाए । अप्पेह मज्झ पुत्तं जीवंतं जेण पिच्छामि ॥४॥ तो विमलनियमईए सामा नाऊण तासि परमत्थं । छिंदइ तं क्वहारं पुव्वुत्तकमेण नीसेसं ॥६॥ एवं विमलं बुद्धि कयवंमनराहिवेण नाऊण । एसो गम्भपभावो सुयस्स विमलो कयं नामं ॥७॥ अनंतकांशजयादनंतानि वा ज्ञानादीन्यस्येति अनंतः गर्भस्थेऽस्मिन् मात्रा रत्नखचितमनंतं महत्प्रमाणं दाम खमे दृष्टमित्यनंतः १४ दुर्गतौ पतंतं सच्चसंघातं धारयतीति धर्मः, गर्भस्थे
ANTI
॥३२॥
masinHINDI SPIRITED
For Private And Personal