SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Gyanmandie चतुर्विंशतिस्तवः Shrillin Aradhana Kendra Acharya Shri Kalah श्रीदें थरचतुष्कप्रक्षेपात् , अग्रेतनवर्णानां अर्हचैत्यस्तवे गणितत्वाद् अद्विरुक्ता इति प्रतिज्ञानाच, एवमग्रेऽपि भाव्यं १, तथा द्वे शते | चैत्य श्री षोडशाधिके श्रुतस्तबदंडके सुअस्स भगवओत्ति सप्ताक्षरसहितगणनात् दंडकांतःपातित्वादेषां २, तथा अष्टनवत्यधिकं शतं सिद्धधर्म०संघाचारविधौ स्तवदंडके, सम्मदिट्ठिसमाहिगराणमिति यावत् , पंचाधिकारप्रमाणत्वात् पंचमदंडकस्य, 'सिद्धथवे पंच अहिगारा' इति वचनात् ॥३२॥ शेषभावना प्राग्वत् , अथ सूत्र व्याख्या-तत्र नामस्तवसूत्रमिदं-'लोगस्स उज्जोअगरे' इत्यादि, लोकस्य-धर्माधर्माकाशजीवपुद्गलेतिपंचास्तिकायात्मकस्य उद्योतकरान्-केबलालोकेन तत्पूर्वकवचनदीपेन वा प्रकाशनशीलान् , अनेन वचनातिशय उक्तः, लोकोद्योतकरत्वं च तच्छ्रा(स्ता)वकानामुपकाराय, न चानुपकारिणः कोऽपिस्तौतीत्युपकारित्वप्रदर्शनार्थायाह-'धर्मतीर्थकरान्' धर्मः-श्रुतचरणात्मकस्तत्प्रधानं तीर्थ नद्यादेः शाक्यादेवाधर्मबहुलस्य द्रव्यतीर्थस्य निरासेन भवार्णवोत्तारकं संघादि भावतीर्थ, आह च-कुप्पवयणाइ नइआइ तरणसमभूमि दवओ तित्थं । बुडंति तत्थवि जओ संभवइ य पुणवि उत्तरणं १॥ संघाइ भावतित्थं जं तत्थ ठिया भवण्णवं नियमा। भविया तरंति नय पुणवि भवजलो होइ तरिययो ।२।" तत्करणशीलान् , एतेन पूजातिशयचोक्तः,अपायापगमातिशयमाह-'जिनान् रागादिजेतृन् , अर्हतः अष्टमहाप्रातिहादिपूजानि , विशेषणपदमेतत् ,कीर्तयिष्यामिखनाममिः स्तोष्ये, चतुर्विंशतिं भरतक्षेत्रोद्भवान् , अपिशब्दात् भावतः शेषक्षेत्रसंभवांच, ते च राज्यावस्थासु द्रव्याहतोऽपि भवं तीति भावार्हत्प्रतिपादनायाह-'केवलिनः' उत्पन्नकेवलज्ञानान् , भावार्हत इत्यर्थः, एतेन ज्ञानातिशयमाह, एवं च सर्वस्खपरसंपत्- | सर्वखकल्पातिशयचतुष्टयोपेतानर्हतः स्तोष्यामीत्यावेदितं भवति । यदुक्तं 'कीर्तयिष्यामीति तत् कुर्वन् गाथात्रयमाह-'उसभे'त्यादि, सुगमाः, नामार्थस्तु सामान्यतो विशेषतचोच्यते, तत्र सामान्यत 'उसहो ति दुर्वहसंयमधुरोद्वहनाद् वृषभ इव वृषभः, Paani MAIN ||३२१॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy