SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatitm.org Acharya Shri Ka s ur Gyanmandit श्रीदे चैत्यस्तवव्याख्या सर्गवर्गहतये सदोधिलाभाय च ॥ १५ ।। इति भानुश्रेष्ठिकथा। चैत्यश्री- तथा 'सम्माणवत्तियाए' सन्मानो-मानसप्रीतिपरिगतोचितविनयप्रतिपत्तिः, स्तवादिभिः सद्गुणोत्कीर्तनमित्यन्ये, IN अथ वंदनाद्याः किमर्थमित्याह-'बोहिलाभवत्तियाए' बोधिलाभः-प्रेत्यजिनधर्मावाप्तिस्तत्प्रत्ययं, यद्यप्पयं साध्वादेरस्त्येव चारविधी तथापि क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसंभवात् ,जन्मान्तरे युक्तैवास्य प्रार्थना,किंनु प्राप्तभ्रष्टस्यापि,यत्नपाप्यत्वात् तस्य, ॥३१७॥ संभवति चैवं भावातिशयेन रक्षणमपि, तदाशंसाऽपि किमर्थमित्याह-'निरुवसग्गवत्तियाए' निरुपसर्गो-जन्मायुपसर्गरहितो मोक्षस्तत्प्रत्यय, संपत् २ । अयं च कायोत्सर्गः श्रद्धादिभिर्विना क्रियामाणोऽपि नेष्टार्थसाधक इत्यत आह-'सद्धाए' इत्यादि, श्रद्धया-खामिलापेण, न परोपरोधबलाभियोगादिना १ मेधया-जिनोक्तमर्यादावर्तितया, नासमंजसतया, हेयोपादेयपरिज्ञानरूपया वा, नतु जडतया, हृदयपटुतयेत्यर्थः २ धृत्या-मनःस्वास्थ्येन, मनःसमाधिविशेषितप्रीत्येत्यर्थः, न तु रागाद्याकुलत्वेनान्यचित्ततया ३ धारणया-अर्हदादिगुणाविसरणरूपया,न तन्यूनतया४ अनुप्रेक्षया-अर्हद्गुणानामेव पुनःपुनश्चितनेन, न तद्वैकल्येन ५ वर्धमानया-वृद्धि गच्छन्त्या, नानवस्थितया, प्रत्येकं चैतत् श्रद्धादिभिः संबध्यते, यथा वर्धमानया श्रद्धयेत्यादि, एवं चैषामुपन्यास इति लाभक्रमेण,यथा श्रद्धासद्भावे मेधा तत्सद्भावे धृतिरित्यादि,वृद्धिरप्यासामेवमेव,एवमेतैर्हेतुमिस्तिष्ठामि-करोमि | कायोत्सर्ग स्थानादि, अन्यव्यापारवच्छरीरत्यागमित्यर्थः,इह यत् प्राक् करोमि कायोत्सर्गमित्युक्तं तत् 'सत्सामीप्ये सद्वद्वे'ति (है. ५-४-१) सूत्रात्, करोमि-करिष्यामीति क्रियाभिमुख्यमेवोक्तं, संप्रति त्वासनतरत्वात् अस्य करणमेवाह । 'अकए काउस्सग्गे नणु कयकरणंति भन्नए एत्थ । अइआसन्नत्तणोत्ति कन्जमाणं कडं जम्हा ॥१॥' (५२५ अर्थतः) अनेनाभ्युपगमपूर्व श्रद्धादि For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy