________________
Shri Mahav Jin Aradhana Kendra
श्रीदे० चैत्य० श्री
धर्म० संघा चारविधौ
॥ २८५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वाचकं पदं, नमस्कारश्च द्रव्यसंकोच भावसंकोच भेदाद् द्विधा, तत्र द्रव्यसंकोचनं शिरोनमनांजलिबंधपादविन्यासादि, भावसंकोचनं तु प्रीतिप्रणिधानादिविधानतो विशुद्धमनसा नियोगः, एतेन नमस्कारचातुर्विध्यमुक्तं, तथाहि द्रव्यतो नामैको नमस्कारो न भावतो निह्ववद्रव्यलिङ्गिपालकादीनामनुपयुक्त सम्यग्दृष्ट्यादीनामपि च 'अनुपयोगो द्रव्य मिति वचनात् १ अन्यस्तु भावतो नमस्कारो न द्रव्यतः अनुत्तरसुरादीनां ग्लानाद्युपयुक्तसम्यग्दृष्ट्यादीनां च २ द्रव्यतो भावतश्च नमस्कारो यथाविधि शिरोनमनादिक्रियानिष्ठोपयुक्तसम्यग्दृष्ट्यादीनामेव ३ नो द्रव्यतो नो भावतश्च कपिलादीनामित्र नमस्काराभाव एव ४, उतं श्रीभद्रबाहुस्वामिना निण्हाइ दव भावोवउत्त जं कुञ्ज सम्मदिट्ठी उ । नेवाइयं पदं दवभावसंकोयण पयत्थो ॥ १ ॥” अस्तु भवत्विति प्रार्थनार्था क्रिया, दुरापो हि परमप्रकर्षप्राप्तो भावनमस्कार इत्थमाशंसावीजाधानेन साध्यते इति ज्ञापनार्थ, आह च - "अत्थुत्ति पत्थणा दुल्हो उ उक्को सभावनमुकारो। लब्भइ बीयाहाणा इय आसंसाइ तं नु भवे ।। १ ।। " भावनमस्कारप्रकर्षवथ वीतरागो 'नमस्तीर्थाये' तिनिराशंसमेवेति भणति, उपशांतमोहादौ हि पूजाकारके अविकलाप्तोपदेशपरिपालनरूपप्रतिपच्यभिधान चतुर्थपूजायाश्च भावात्, भणितं च- "बिंति अणासंसंचिय तित्थस्स नमोति उवसमजिणाई । अविगलआणापालणपहाण पडिवत्तिपूयपरा ॥१॥" यदुक्तमुत्तराध्ययनेषु - अरहंता तित्थयरा, तेसिं चैव भत्ती कायव्या, सा पूआवंदणाईहिं भवइ, पूअंमि पुप्फामिसथुईपडिवत्तिभेयओ चउविहंपि जहासत्तीए कुञ्जा" तथाऽन्यत्र "पुष्पामिषस्तुतिप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं " णमितिवाक्यालंकारे, केभ्यः १'अरहंताणं' ' चतुर्थ्याः षष्ठी' ति प्राकृतवशेनात्र षष्ठी, नमोऽर्हद्भ्यः सुरासुरादिकृताशोकवृक्षाद्यष्टमहाप्रातिहार्य रूपधर्म्मध्वजधर्म्म चक्राद्यतिशय स्वरूपत्रिभुवनातिशायिमहिमाभ्यः, उक्तं च - " जिण अट्ठपाडिहेरा असोगतरू चमर कुसुम जलबुट्टी । दिव्वझुणी
For Private And Personal
शक्रस्तवार्थः
॥२८५ ॥