________________
Shri Main Aradhana Kendra
श्रीदें०
चैत्य० श्री
धर्म० संघाचारविधौ ॥२६५॥
www.kobatirth.org
Acharya Shri Kailas
पिण्डोऽयं गच्छत्वित्यादि, इति बालादीनामपि त्रसेषु सुखेन जीवत्वप्रतिपत्तेः पश्चानुपूर्व्या प्रथमं त्रसविराधनार्थमाह- पाणकमण उच्छ्रासायुरिन्द्रिययोगबलरूपाः प्राणाः यथायोग्यं सन्त्येषां ते प्राणाः प्राणिनो वा जीवाः एकेन्द्रियाणामग्रे भणिष्यमाणत्वादत्र प्राणिन कृमिकीटपतङ्गमण्डू किकाद्याः द्वीन्द्रियादयो ज्ञेयाः तेषामाक्रमणे वक्ष्यमाणअभिहयइत्यादिप्रकारेण पीडने या विराधना-प्रतिकूलाचरणा तस्याः प्रतिक्रमितुमिच्छामीति योगः, तथा बीजानां - सर्वकणकुलिकामिज्झादिरूपाणां पक्कापक्कशुष्कार्द्रविरूढादिभेदभिन्नानां स्वपरकायादिशस्त्रानुपहतानामिति शेषः आक्रमणे प्राग्वत्, तथा हरितानां - कन्दमूलत्व काष्ठपत्र पल्लव किसलयाङ्कुरपुष्पफलटणाद्यशेषवनस्पतीनां छिन्नादिभेदानामशत्रोपहतानां, आक्रमणे पूर्ववत्, आभ्यां च सर्वबीजानां शेषवनस्पतीनाञ्च जीवत्वमाह, प्रागुक्तबालगोपालाङ्गनादिप्रतिपन्नजीवत्वत्रसकायवत्, तथा चाचारांगसूत्रम् - " से बेमि इमपि जाइधम्मयं एयपि जाइ - धम्मयं इमपि आहारमंतयं एयंपि आहारमंतयं इमपि अनिययं एयंपि अनिययं इमपि चओवचइयं एयंपि चओवचइयं इमं पि विपरिणामयं एयंपि विपरिणामयं " अत्र गाथा - "इह जाइवुडिधम्मं चित्तं छिन्नं मिलाइ आहारं । अनियय चओवचइयं विषरिणमी तसतणुवर्णगं ।। १ ।। " प्रयोगश्चात्र सचेतना वनस्पतयः आहारादिसद्भावे वृद्धिमच्चात् बालकशरीरवत्, इह य आहा| रादिसद्भावे वृद्धिमान् स सचेतनो यथा बालकशरीरं, वृद्धिमन्तथ आहारादिसद्भावे ( वनस्पतयः ) अतः सचेतनाः, इतसात्मका वनस्पतयः सर्वत्वगपनयने मरणात् गर्दभवत्, एवं स्वापादिधर्मत्वादित्यादि, आहुच – “ आगमश्चोपपत्तिश्व, संपूर्ण बुद्धिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावः प्रतिपत्तये || १ || आगमो ट्र्याप्तवचनमाप्तं दोषक्षयाद् विदुः। वीतरागोऽनृतं वाक्यं, न ब्रूयात्वसंभवात् || २ || रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ?
For Private And Personal
Gyanmandir
ईर्यापथिकीव्याख्या
॥२६५॥